SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ९०८ सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ आर्यक्षेत्रप्रकृते सूत्रम् ५० इवेदमन्त्यदीपकमवसातव्यम् । ततश्चेदमुक्तं भवति ?-एतत् कल्पाध्ययनं प्रथमोद्देशकं वा न जानाति स गणपरिवर्ती भगवद्भिर्नानुज्ञातः ॥ ३२४५॥ इदमेव प्रचिकटयिपुः "तत्राचार्ये ज्ञातमिदं भवति” (गा० ३२४४) इति पदं व्याख्यानयति जो गणहरो न याणति, जाणंतो वा न देसती मग्गं । सो सप्पसीसगं पिव, विणस्सती विजपुत्तो वा ॥ ३२४६ ॥ यः कश्चिद् गणधरः 'मार्ग' यथोक्तसामाचारीरूपं न जानाति, जानाति वा परं न शिष्याणां तं मार्गमुपदिशति स सर्पशीर्षकमिव वैद्यपुत्र इव वा विनश्यति ॥ ३२४६ ॥ तत्थं इमं कप्पियं उदाहरणं--एगो सप्पो निच्चं पलोएंतो अप्पणो जहासुहं विहरइ । 10 ताहे से पुंछडा भणति--तुमं निच्चमेव पुरतो गच्छसि । अन्यच्च सी-उण्ह-वासे य तमंधकारे, णिचं पि गच्छामि जतो मि णेसी । गंतव्वए सीसग! कंचि कालं, अहं पिता होज पुरस्सरा ते ।। ३२४७ ॥ भोः शीर्षक ! नित्यमाम्यहं भवत्पृष्ठलग्ना सती यतो यतो मां नयसि तत्र तत्र शीते वा उष्णे वा वर्षे वा निपतति 'तमोऽन्धकारे वा' बहलतमःपटलविलुप्ते प्रदेशे गच्छामि, किं करोमि ? 15 परं साम्प्रतं कञ्चित् कालं 'गन्तव्ये' गमनेऽहमपि तावत् 'ते' तव पुरस्सरा भवेयम् ॥ ३२४७॥ शीर्षकं प्राह ससक्करे कंटइले य मग्गे, वजेमि मोरे णउलादिए य । । बिले य जाणामि अदुट्ट दुढे, मा ता विसूराहि अजाणि एवं ॥ ३२४८॥ हे पुच्छिके ! अंहं पुरस्सरं गच्छन् सन्। 'सशर्करान्' कर्करयुक्तान् कण्टकाकुलाँश्च मार्गान् 20 वर्जयामि । यत्र च मयूरान् नकुलादींश्चात्मोपद्रवकारिणः पश्यामि तत्र न गच्छामि । बिलानि चामूनि अदुष्टानि अमूनि च दुष्टानि इत्येवमहं सम्यग् जानामि । त्वं पुनरेतेषां मध्यादेकमपि न जानासि । अतस्त्वमेवमज्ञा सती मा तावत् “विसूराहि" ति "खिदेर्जूर-विसूरौ” ( सिद्ध० ८-४-१३२) इति प्राकृतलक्षणबलाद् मा खेदमनुभवेत्यर्थः ॥ ३२४८॥ पुच्छिका प्राह तं जाणगं होहि अजाणिगा हं, पुरस्सरं ताव भवाहि अन्ज । 25 एसा अहं गंगलिपासएणं, लग्गा दुअं सीसंग! वच्च वच्च ॥ ३२४९ ॥ ___ शीर्षक ! त्वं ज्ञायकं भव, अहह्मज्ञायिकाऽपि स्थास्यामि, 'पुरस्सरम्' अग्रगामुकं तावत् त्वमद्य भव, अहं पुनरेषा नङ्गलिपाशकेन लग्ना अत्रैव स्थिता, त्वं पुनः 'द्वतं' शीघ्रं व्रज ब्रजेति १°पकं सकलप्रथमोद्देशकविषयमव का० ॥ . २ ता० त० डे. मो० ले० विनाऽन्यत्र-य एनां प्रथमोद्देशकभणितां सामाचारी न जानाति भा० । य एतदखिलमपि कल्पाध्ययनमेकमेव वा प्रथमोद्देशकमर्थतो न जानाति का० ॥ ३ इति नियुक्तिगाथापदं कां० ॥ ४ 'मार्ग' प्रस्तुतशास्त्रोक्तसामा का० ॥ ५ °थ सप्पसीसगोदाहरणं ताव भन्नइ-एगो कां० ॥ ६ °तो मणे मो० ले. कां० विना ॥ ७°व्ये कालेऽहम भा० ॥ ८ » एतदन्तर्गतः पाठः कां० एव वर्तते ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy