SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ८९० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ संखडिप्रकृते सूत्रम् ४७ गुणान् ; भवन्ति चेदृशा अपि केचिदस्मिन् जगति ये दोषानेव केवलान् पश्यन्ति न गुणनिवहम् । उक्तञ्च गुणोच्चये सत्यपि सुप्रभूते, दोषेषु यत्नः सुमहान् खलानाम् । क्रमेलकः केलिवनं प्रविश्य, निरीक्षते कण्टकजालमेव । । यतः 'न हि' नैव 'सर्पलुब्धिः' सर्पग्राहकत्वं जीवितुकामस्य पुरुषस्य श्रेयसे भवति, किन्तु प्रत्युत मरणाय; एवं भवतोऽपि संयमगुणान्वेषणबुद्ध्या अरण्यवसनं तन्न श्रेयसे सम्पद्यते, प्रत्युताहाराभावेनार्तध्यानादिपरिणामसम्भवात् कन्द-मूल-फलादिभक्षणाद्वा तस्यैव संयमस्योपघातं जनयति ॥ ३१७६ ॥ आह यद्येवं ततो निरूप्यतां कथमत्र दोषा भवन्ति ? कथं वा न भवन्ति ? इति उच्यते भण्णति उवेच्च गमणे, इति दोसा दप्पदो य जहि गंतुं। कम गहण मुंजणे या, न होंति दोसा अदप्पेणं ॥ ३१७७॥ .. भण्यतेऽत्र प्रतिवचनम्-यदि 'उपेत्य' आकुट्टिकया सङ्खड्यां गच्छति, 'दर्पतश्च' गुरुग्लानादिकारणाभावेन यत्र गत्वा गृह्णाति भुङ्क्ते वा तत्रानन्तरोक्ता दोषा मन्तव्याः । अथ 'क्रमेण' गृहपरिपाट्या सङ्खडिगृहं प्राप्तः ततस्तत्र ग्रहणं भोजनं वा कुर्वाणस्य न दोषा भवन्ति । 'अद15 Lण वा' पुष्टालम्बनेन सङ्खडिप्रतिज्ञयाऽपि गच्छतो न दोषा भवन्ति ॥ ३१७७ ॥ इदमेव भावयति पडिलेहियं च खेत्तं, पंथे गामे व भिक्खवेलाए । गामाणुगामियम्मि य, जहिँ पायोग्गं तहिं लभते ॥ ३१७८ ॥ मासकल्पस्य वर्षावासस्य वा योग्यं क्षेत्रं प्रत्युपेक्षितम् , तत्र च गन्तुं प्रस्थितानां 'पथि' मार्गे 20 वर्तमानानां यद्वा तस्मिन्नेव ग्रामे प्राप्तानां सङ्कडिरुपस्थिता, उभयत्रापि यदि भिक्षावेलायां भक्तपानं प्राप्यते तदा कल्पते गन्तुम् । ग्रामानुग्रामिकेऽप्यनियतविहारे विहरतां यत्र भिक्षावेलायां प्रायोग्यं प्राप्यते तत्र ग्रहीतुं लभते नान्यत्रेति ॥ ३१७८ ॥ अथैनामेवं गाथां व्याचष्टे-- वासाविहारखेत्तं, वचंताऽणंतरा जहिं भोजं । अत्तट्टठिताण तहिं, भिक्खमडंताण कप्पेजा ॥ ३१७९ ॥ 25 वर्षाविहारो नाम-वर्षावासस्तत्प्रायोग्यं क्षेत्रं व्रजताम् 'अन्तरा' पथि यत्र 'भोज्यं' सङ्खडी भवति । आह च चूर्णिकृत् ___ भोजं ति वा संखडि त्ति वा एगढें । 'तत्र' ग्रामादौ 'आत्मार्थस्थितानां' स्वार्थमवस्थितानां न तु सङ्खडिनिमित्तं गृहपरिपाट्या च भिक्षामटतां सङ्खडिं गत्वा भक्त-पानं ग्रहीतुं कल्पते ॥ ३१७९ ॥ कुतः ? इति चेद् उच्यते नत्थि पवत्तणदोसो, परिवाडीपडित मो ण याऽऽइण्णा । परसंसट्ठ अविलंबियं च गेण्हंति अणिसण्णा ।। ३१८० ॥ १संयमजीविताभिलाषिणो यदेतदरण्य भा० ॥ २ °पणाऽवु ता० त० डे० ॥ ३ जणेसु य, न ता० ॥ ४°व नियुक्तिगाथां कां० ॥ 50 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy