SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ ८५२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [हरियाडियाप्र० सूत्रम् ४५ 'काणः' चक्षुर्विकलः ईदृशो वाऽहं जातोऽस्मि, अतो मा मदीयान् शिष्यान् बाधध्वम्, यद् मारणादिकं कर्तुमिच्छथ तद् ममैव कुरुध्वम् ॥ ३०१८ ॥ यतः इहरा वि मरिउमिच्छं, संतिं सिरसाण देह मं हणह । मयमारगत्तणमिणं, जं कीरइ मुंचह सुते मे ॥ ३०१९ ॥ 5 इतरथाऽपि तावदहं मर्तुमिच्छामि अतो मदीयशिष्याणां शान्ति प्रयच्छत, मां पुनः यथा खरुचि 'हत' विनाशयत; यतो यदिदं मम मारणं भवद्भिः क्रियते तद् मृतस्यैव मारकत्वं भवति, अतो मुञ्चत मदीयान् ‘सुतान्' शिष्यान् ॥ ३०१९ ॥ अपि च एयं पि ताव जाणह, रिसिवज्झा जह न सुंदरी होइ । इह य परत्थ य लोए, मुंचंतऽणुलोमिया एवं ॥ ३०२० ॥ 10 भो भद्राः ! एतदपि तावद् यूयं जानीथ, यथा--ऋषिहत्या विधीयमाना इह च परत्र च लोके सुन्दरा न भवति । एवम् 'अनुलोमिताः' प्रज्ञापिताः सन्तस्ते तस्कराः साधून् मुञ्चन्ति ॥ ३०२० ॥ अथैवमपि न मुच्येरन् ततः किं कर्त्तव्यम् ? इत्याह धम्मकहा चुण्णेहि व, मंत निमित्तेण वा वि विजाए । नित्थारेइ बलेण व, अप्पाणं चेव गच्छं च ॥ ३०२१ ॥ 15 यो धर्मकथालब्धिमान् स धर्मकथया तं सेनापतिमुपशमयति, चूर्णैर्वा मन्त्रेण वा निमित्तेन वा विद्यया वा तमावर्त्तयेत् । यो वा धनुर्वेदादौ कृतपरिश्रमः स भुजबलेन तं सेनापतिं निर्जित्यात्मानं गच्छं च निस्तारयति ॥ ३०२१ ॥ अथैषामेकमपि न विद्यते. ततः वीसजिया व तेणं, पंथं फिडिया व हिंडमाणा वा। गंतूण तेणपल्लिं, धम्मकहाईहिँ पन्नवणा ॥ ३०२२॥ 20 'तेन' प्रान्तेन सेनापतिनोपधिमपहृत्य साधवः 'विसर्जिताः' मुक्ता इत्यर्थः, मुक्ताश्च यधु पधिं न गवेषयन्ति ततश्चतुर्लघुकाः । ततः स्तेनपल्लीं गत्वा गवेषयितव्य उपधिः । गच्छतां चापान्तराले यदि कोऽपि प्रश्नयेत्-कुतो भवन्त इहागताः ? ततो वक्तव्यम्-‘पथः' मार्मात् परिभ्रष्टाः 'हिण्डमाना वा' विहारक्रमेण विहरन्त एव वयमिह सम्प्राप्ताः । ततश्च स्तेनपल्ली गत्वा धर्मकथादिभिः सेनापतेः प्रज्ञापना कर्त्तव्या ॥ ३०२२ ॥ अथेदमेव भावयति __भद्दमभई अहिवं, नाउं भद्दे विसंति तं पल्लिं । फिडिया मुत्ति य पंथं, भणंति पुट्ठा कहिं पल्लिं ॥ ३०२३॥ स्तेनपल्ली गच्छद्भिः प्रथमत एवैतद् ज्ञातव्यम्-किमत्र सेनापतिर्भद्रकोऽभद्रको वा ? । यदि भद्रकस्ततस्तां पल्लीं प्रविशन्ति । अथाभद्रकस्ततः ‘मा प्रान्तापना-उपद्रावणादीनि कार्षीद्' इति कृत्वा न तत्र गन्तव्यम् । अथ गच्छन्ति ततश्चत्वारो गुरवः । अथ कोऽप्युपशमनायोत्सहते 30 ततस्तं गृहीत्वा गन्तव्यम् । गच्छन्तश्च 'कुतः किमर्थं भवन्त इहायाताः ? कुत्र वा ब्रजिष्यथ ?' इति पृष्टा भणन्ति–पथः 'स्फिटिताः' परिभ्रष्टा वयमिह पल्ल्यामाहारान्वेषणं कुर्महे ॥३०२३॥ मुसिय त्ति पुच्छमाणं, को पुच्छइ किं व अम्ह मुसियव्यं । अहिवं भणति पुचि, अणिच्छे सन्नायगादीहिं ॥३०२४ ॥ .25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy