SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 15 सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [रात्रिभक्तप्रकृते सू० ४३ एवंविधां प्रज्ञापनां श्रुत्वा यः कृतकरणः-सहस्रयोधिप्रभृतिकस्तस्य गदाया आदिशब्दाद लगुडस्य वा ग्रहणं भवति । गृहीत्वा च गदादिकमसौ गुरून् ब्रवीति-भगवन् ! शेरतां विश्वस्ताः सर्वेऽपि साधवः, अहं सिंहादीनां निवारणां करिष्यामि । ततः सुप्ताः साधवः । स पुनरेकाकी गदाहस्तः प्रतिजाग्रदवतिष्ठते । तस्य च प्रतिजाग्रतः सिंहत्रिकं समागच्छेत् , आदिशब्दाद् 5.व्याघ्रादिपरिग्रहः । तत्र च वृद्धसम्प्रदाय:.. सो साहू गयाहत्थो पडियरमाणो चिट्ठइ । नवरं सीहो आगतो । तेण ईसि त्ति आहतो नाइदूरं गंतुं मओ। अन्नो सीहो आगओ। सो चिंतेइ-सो चेव पुणो आगओ । तओ गाढतरं आहओ । सो नस्संतो पढमस्स आरओ मओ । अन्नो वि सीहो आगओ। सो चिंतेइतइयं पि वारं सो चेव पुणो आगओ। ताहे बिइयाओ बलिययरं आहओ । नस्संतो बीयस्स 10 आरओ मओ। तओ वोलिया खेमेण रयणि ति ॥ ईदृशस्य कृतकरणस्याभावे यः 'तपोबलिकः' विकृष्टतपसा बलीयान् क्षपकः स देवताया आकम्पननिमितं 'स्थान' कायोत्सर्ग करोति । एतदग्रतो भावयिष्यते ॥ २९६४ ॥ अथ तेन कृतकरणसाधुना प्राभातिकप्रतिक्रमणवेलायां यथा गुरुसमक्षमालोचितं तथा प्रतिपादयति हंत म्मि पुरा सीह, खुडुयाइ इयाणि मंदथामो मि । तिन्नाऽऽवाए सीहो, रत्ति पहओ मया न मओ॥ २९६५ ॥ क्षमाश्रमणाः ! 'पुरा' पूर्वमहं प्रबलशरीरतया खुडुक्कामात्रेणैव सिंहं हन्ताऽस्मि, इदानीं तु मन्दस्थामाऽस्मि ततः "तिन्नाऽऽवाए" त्ति विभक्तिव्यत्ययात् 'त्रिष्वापातेषु' आगमनेषु गदाघातेन सिंहो रात्रौ मया प्रहतः परं 'न मृतः' नापद्राणः । एवमालोच्य मिथ्यादुष्कृतं दत्तवान् । एतावतैव चासौ शुद्धः, अदुष्टपरिणामत्वात् ॥ २९६५ ॥ नितेहिं तिनि सीहा, आसन्ने नाइदूर दूरे य । निग्गयजीहा दिवा, स चावि पुट्ठो इमं भणइ ॥ २९६६ ॥ प्रभाते निर्गत्य पन्थानं गच्छद्भिः ते त्रयः सिंहा निर्गतजिह्वा दृष्टाः । तत्रैक आसन्ने, द्वितीयो नातिदूरे, तृतीयस्तु दूरे । स च आचार्यैः पृष्टः-आर्य ! किमेवं सिंहत्रयं विपन्नमवलोक्यते । ततः स इदं भणति ॥ २९६६ ॥ मा मरिहिइ ति गाद, न आहओ तेण पढमओ दरे। गाढतर विइय तइओ, न य मे नायं जहऽनन्नो ॥ २९६७ ॥ भगवन् ! यदा प्रथमः सिंह आयातस्तदा मया ‘मा मरिष्यति' इति कृत्वा गाढं नाहतस्तेनासौ दूरे गत्वा विपन्नः । द्वितीयस्तु ‘स एवायं भूयोऽप्यायातः' इति बुद्ध्या गाढतरमाहतः तेनासौ नासन्ने नातिदूरे । तृतीयस्तु द्वितीयादपि गाढतरमाहतस्तेनासौ प्रत्यासन्न एवं भूभागे गत्वा 30 मृतः । न च मया ज्ञातम् , यथा-अयमन्यान्यः सिंहः समागतो न स एवेति ॥ २९६७ ॥ ईदृशस्य कृतकरणस्याभावे देवतायाः कायोत्सर्गः कर्तव्यः, स च केन कियन्तं वा कालं यावत् ! इति अत्रोच्यते१°मायातम्, आदि भा० ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy