SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ७९२ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अवग्रहप्रकृते सू० ३८ कथय किमपि तादृशं वशीकरणं येन भोगिको मे वशीभवति ॥ २८०२ ॥ इदमेव स्पष्टयति - पुच्छाहीणं गहियं, आगमणं पुच्छणा निमित्तस्स । छिन्नं पि हु दायव्वं, ववहारो लब्भए तत्थ ॥ २८०३ ॥ ग्रहणकाले 'केन कार्येण मे प्रयच्छसि ?' इत्येवं पृच्छया हीनं वस्त्रं गृहीतम् । गृहीते च b तस्याः संयतप्रतिश्रये आगमनम् आगता च सा 'पुत्रो मे भविता ? न वा ?' इत्यादिकं निमित्तं पृच्छति', येन वाऽहं भोगिकस्याभिरुचिता भवामि तत् किमप्युपदिश । ततः साधुना वक्तव्यम् —न कल्पते मैथुनं प्रतिसेवितुं साधूनाम्, वेण्टलं निमित्तं वा नाहं जानामि । एवमुक्ते यदि सा वस्त्रं भूयोऽपि मार्गयेत् ततः प्रतिदातव्यम् । अथ तेन वस्त्रेण च्छित्त्वा पात्रधादिकं किमप्यपरं कृतं ततश्छिन्नमपि तदेव दातव्यम् । अथ व्यवहारद्वारं व्याख्यायते10 तत्र यदि सा छिन्नं न गृह्णाति, ब्रवीति च - मम सकलमेव प्रयच्छ । ततो राजकुलं गत्वा व्यवहारे प्रारब्धे कारणिका अभिधातव्याः, यथा - केनचिद् वृक्षखामिना वृक्षो विक्रीतः, ऋयिकेण च मूल्यं दत्त्वा छित्त्वा च खगृहं नीतः, ततः स विक्रयिकः पश्चात्तापितो भणति - प्रतिगृहाण मूल्यम् प्रत्यर्पय मदीयं वृक्षम् ; क्रयिकः प्राह - मया स वृक्षश्छित्त्वा पृथक्काष्ठानि कृतः, अतः कथं तमेव वृक्षमखण्डमहं ते समर्पयामि ?; एवं विवदमानौ तौ राजकुलमुपस्थितौ, 15 ततः कथयत कारणिकाः ! किं स क्रयिको युष्माभिर्वृक्षं दाप्यते ? अथ दाप्यते ततः काष्ठान्येव, न पूर्वावस्थं वृक्षमिति व्यवहारो लभ्यते ॥ २८०३ ॥ 3 पाहुणएणऽण्णेण व, नीयं व हियं व होइ दङ्कं वा । तहियं अणुट्ठाई, अन्नं वा दड्ढ मोत्तूणं ।। २८०४ ॥ अथ वस्त्रं प्राघुणकेनान्येन वा साधुनाऽन्यत्र नीतं भवेत् स्तेनेन वा हृतं प्रदीपनेन वा दग्ध 20 तत्र चानुशिष्ट्यादिकं कर्त्तव्यम् । अनुशिष्टिर्नाम - सद्भावकथनपुरःसरं प्रज्ञापना । तथाऽप्यनुपरतायां धर्मकथा कर्त्तव्या, विद्यया मंत्रेण वा निराकरणीया । तदभावेऽन्यद् वस्त्रं तस्यादात व्यम्, परं दग्धं वस्त्रं मुक्त्वा, दग्धे हृते वा न किञ्चिद् दीयत इति भावः । यदि सा राजकुलमुपतिष्ठते ततस्तत्रापि व्यवहारो लभ्यते, “दत्त्वा दानमनीश्वरः" इति ॥ २८०४ ॥ अथ दानकाले साधुना पृष्टम् - किंनिमित्तं ददासि ? तत्र सा तूंष्णिका स्थिता, बहिश्चे25 ष्टया न तथाविधः कोऽपि भाव उपदर्शितः, परं ग्रहणानन्तरं काचिदुपाश्रयमागत्य वेण्टलं पृच्छति चतुर्थमवभाषते वा तत्राभिधातव्यम् - न वि जाणामों निमित्तं, न य णे कप्पइ पउंजिउं गिहिणो । परदारदोसकहणं, तं मम माया य भगिणी य ॥ २८०५ ॥ वयं निमित्तं न जानीमः, न च "णे" अस्माकं जानतामपि गृहिणः पुरतो निमित्तं प्रयोक्तुं १ °ति, उपलक्षणमिदम्, तेन चतुर्थमवभाषते वशीकरणं वा पृच्छति येनाहं भो' कां० ॥ २ मो० ले० विनाऽन्यत्र —म् । एतेन दानद्वारमपि विवृतम् । अथ व्यव' कां० | 'म् । अथ सा छिन्नं भा० त० डे० ॥ ३ एतदग्रे अत्रैव प्रकारान्तरमाह इत्यवतरणं कां० ॥ ४ भवति हृतं वा स्तेनेन प्रदीपनकेन वा कां० ॥ ५ °हिणां पु° कां विना ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy