SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २७३८-४४] प्रथम उद्देशः । ७७३ दर्शनप्रभावकशास्त्राणामप्यध्ययनार्थ गच्छेत् । चारित्रार्थ नाम-तत्र क्षेत्रे स्त्रीसमुत्थदोषरेषणादोपैर्वा चारित्रं न शुध्यतीति तन्निमित्तमन्यत्र वर्षासु गच्छेत् । “वीसुंभण" ति 'विष्कम्भनं' मरणम् , तत्र यस्याचार्यस्य ते शिष्याः स आचार्यो मरणधर्ममुपगतः, तस्मॅिश्च गच्छेऽपर आचार्यों न विद्यते, अतस्ते वर्षास्वपि अन्यं गणमुपसम्पत्तुं गच्छेयुः । अथवा “वीसुंभण" त्ति 'विष्वग्भवनं नाम' कश्चिदुत्तमार्थ प्रतिपत्तुकामस्तस्य विशोधिकरणार्थं गच्छेत् । “पेसणेणं व" । त्ति कश्चिदाचार्येणान्यतरस्मिन् औत्पत्ति के कारणे वर्षावपि प्रेषितो भवेत् , स च तस्मिन् कारणे समापिते भूयोऽपि गुरूणां समीपे समागच्छेत् ।। २७४१ ॥ अथवेदं द्वितीयपदम् आऊ तेऊ वाऊ, दुब्बल संकामिए अ ओमाणे । पाणाइ सप्प कुंथू , उट्ठण तह थंडिलस्सऽसती ।। २७४२ ॥ अप्कायेन वसतिः प्लाविता भवेत् स्थण्डिलानि वा व्यूढानि, अग्निकायेन वा प्रतिश्रयो 10 ग्रामो वा दग्धः, “वाऊ” इत्ति वातेन वा तत्र वसतिर्भमा, “दुबल" त्ति वर्षेण तीम्यमाना वसतिः 'दुर्वला' पतितुकामा सजाता, “संकामिए य" ति स ग्रामो धिग्जातीयादेः कस्यापि प्रत्यनीकस्य सङ्क्रामितः-दत्त इत्यर्थः, अथवा “संकामिए य" ति तानि श्राद्धकुलान्यन्यत्र ग्रामे सङ्क्रामितानि, “ओमाणे" त्ति इन्द्रमहादिषु बहवः पाण्डुराङ्गप्रभृतय आगतास्तैरवमानं सञ्जातम् , 'प्राणादिभिर्वा' मर्कोटकोद्देहिकादिभिर्वसतिः संसक्ता भवेत् , सर्पो वा वसतौ समागत्य 15 स्थितः, अनुद्धरिनामकैर्वा कुन्थुजीवैर्वसतिः संसक्ता समजायत, ग्रामो वा सकलोऽपि 'उत्थितः' उद्वसीभूतः, 'स्थण्डिलस्य वा' विचारभूमिलक्षणस्य हरितकायादिभिरभावः समजनि, एवमादिकस्तत्र व्याघातो भवेत् ॥ २७४२ ॥ अत एव ते साधवः प्रागेवामुं विधिं विदधति मूलग्गामे तिनि उ, पडिवसभेसु पि तिन्नि वसहीओ । ठायंता पेहिंति उ, वियार-वाघायमाइट्ठा ।। २७४३ ॥ __ मूलग्रामो नाम-यत्र साधवः स्थिताः सन्ति तस्मिन् तिस्रो वसतीः प्रत्युपेक्षन्ते । प्रतिवृषभग्रामा नाम-येषु भिक्षाचर्यया गम्यते तेष्वपि प्रत्येकं तिस्रो वसतीस्तिष्ठन्त एवं प्रत्युपेक्षन्ते । किमर्थम् ? इत्याह-मूलगामे यदि विचारभूमेर्वसतेर्वा व्याघातो भवति ततस्तेषु प्रतिवृषभनामेषु तिष्ठन्ति ॥ २७४३ ॥ तत्राप्कायादिव्याघाते समुत्पन्ने यतनामाहउदगा-ऽगणि-वायाइसु, अन्नस्सऽसतीइ थंभणुद्दवणे । 25 संकामियम्मि भयणा, उट्ठण थंडिल्ल अन्नत्थ ॥ २७४४ ॥ उदकेन वा अमिना वा वातेन वा आदिशब्दात् त्रसप्राणादिजन्तुसंसक्त्या वा व्याघाते समुत्पन्नेऽन्यस्यां वसतौ तिष्ठन्ति । अथ नास्त्यन्या वसतिस्तत उदका-ऽमि-वातान् स्तम्भनी १°वनमुच्यते, तच्च जीवाच्छरीरस्य पृथग्भवनम् , तत्र प्रत्यासन्नीभूते सति कश्चिदुत्त का० ॥ २ द्वितीयपदमाह इत्यवतरणं भा० ॥ ३ तानि निधाकुलान्य° भा० कां० । “अधवा 'संकामिते य' तिणीसाघराणि अण्णम्मि गामे संकंताणि ।" इ ४ वा' प्राशुकविचा कां. ॥ ५ वर्षावासे तिष्ठन्तः प्रथमत एव तिस्रो कां ॥ ६ °च प्रथमतः 'प्रेक्षन्ते' प्रत्यु' कां० ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy