SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ माष्यगाथाः २७२५-३१] प्रथम उद्देशः । ७६९ पद्मराग- वज्र-वैडूर्यादिमणयः प्रधानाः, अप्कायेषु क्षीरोदकादिपानीयानि 'वृक्षेषु' वनस्पतिषु पुष्प - फलादीनि प्रधानानि ॥ २७२७ ॥ गतः प्रधानपरः । अथ भावपरो व्याख्यायते — भावः - क्षायोपशमिका दिस्तदपेक्षमा पर:भावान्तरवर्ती भावपरैः । स च इहौद किमावर्ती गृह्यते । तथा चाहआढणमभुवाणं, वंदण संभुंजणा य संवासो । या जो कुणई, आराहण अकुणओ नत्थि ।। २७२८ ।। अकसायं निव्वाणं, सव्वेहि वि जिणवरेहिँ पन्नत्तं । सो लब्भइ भावपरो, जो उवसंते अणुवसंतो ॥। २७२९ ॥ आदरो अभ्युत्थानं वन्दनं सम्भोजनं संवासश्चेत्येतानि पदानि य उपशान्तो भूत्वा करोति तस्याराधना अस्ति, यस्त्वेतानि न करोति तस्याराधना नास्ति । एतेन "जो उवसमइ तस्स 10 अस्थि आराहणा" इत्यादिकः सूत्रावयवो व्याख्यातः । अथ किमर्थमादरादिपदानामकरणे आराधना नास्ति ? इत्याह – 'अकषायं ' कषायाभावसम्भवि 'निर्वाण' सकलकर्मक्षयलक्षणं सर्वैरपि जिनवरैः प्रज्ञप्तम् । अतो यः कश्चिदुपशान्तेऽपि साधावनुपशान्त आदरादिपदानामकणेन सकषायः स भावपरो लभ्यते, औदयिकभाववर्त्तित्वात् ॥ २७२८ ॥ २७२९ ॥ अथाचार्यस्तमुपशान्तसाधुं प्रज्ञापयन् प्रस्तुतयोजनां कुर्वन्नाह - सो वट्ट ओदइए, भावे तं पुण खओवसमियम्मि | जह सो तुह भावपरो, एमेव य संजम-तवाणं ॥ २७३० ॥ भोभद्र ! 'सः' द्वितीयः साधुरद्याप्यौदयिके भावे वर्त्तते', स्वं पुनः क्षायोपशमिके भावे वर्त्तसे । अतो यथाऽसौ 'तव' त्वदपेक्षया भावपरस्तथा संयम - तपोभ्यामप्ययं परः - पृथग्भूत इति । अतस्त्वया न काचित् तदीया चिन्ता विधेया ॥ २७३० ॥ द्वितीयपदे कुर्यादप्यधिकरणम्, यत आह १ °रः । अत्र चानेनैवाधिकारः, शेषास्तु शिष्यमतिविकाशनार्थे प्ररूपिताः । स च भावपरः इहौदयिक' भा० ॥ २ °ते, अतः स्वेच्छयाssदरादीनि पदानि कुर्याद्वा न वेति । स्वं कां For Private & Personal Use Only 5 Jain Education International 15 खेत्ताद कोविओवा, अनलविर्गिचट्टया व जाणं पि । अहिगरणं तु करेत्ता, करेज सव्वाणि वि षयाणि ॥ २७३१ ॥ क्षिप्तचित्तः आदिशब्दाद् दृप्तचित्तो यक्षाविष्टो वा अनात्मवशत्वादधिकरणं कुर्यात् । 'अकोविदो वा' अद्याप्यपरिणतजिनवचन: शैक्षः सोऽप्यज्ञत्वादधिकरणं विदध्यात् । मद्वा 'जान - 25 न्नपि' गीतार्थोऽपीत्यर्थः अनलस्य - प्रव्रज्याया अयोग्यस्य नपुंसकादेः कारणे दीक्षितस्य तत्कारपरिसमाप्तौ विवेचनार्थं - परिष्ठापनाय तेन सहाधिकरणं करोति, कृत्वा चाधिकरणं सर्वाण्यप्यनादरादीनि पदानि कुर्यात् ॥ २७३१ ॥ ॥ व्यवशमनप्रकृतं समाप्तम् ॥ 20 www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy