SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ दकतीरप्रकृते सूत्रम् १९ ज्ञातिवर्गश्चिन्तयति---अस्मदीयस्त्रीणां मज्जनादिस्थाने एष श्रमणः परिभवेन कामयमानो वा तिष्ठति, ततो दुष्टशील इति कृत्वा ग्रहणा - ऽऽकर्षणादीनि कुर्यात् । याः पुनर परिग्रह स्त्रियस्ताः ‘कुत्सिताः’ रजक्यादयः ‘इतराः ' अकुत्सिता ब्राह्मण्यादयः तावप्येवमेवात्मपरोभयसमुत्थादयो दोषाः । ‘मिथुनेषु' स्त्री-पुरुषयुग्मेषु मैथुनक्रीडया रममाणेषु सविशेषतरा दोषा भवन्ति, ये च ऽ चङ्क्रमणादयो दोषाः पूर्वमुक्तास्तेऽप्यत्र तथैव द्रष्टव्याः । यत एते दोषा अतो दकतीरेऽमूनि सूत्रोक्तानि पदानि न कुर्यात् ॥ २३९८ ॥ चिट्ठण निसीयणे या, तुयट्ट निद्दा य पयल सज्झाए । झाणाऽऽहार वियारे, काउस्सग्गे य मासलहू || २३९९ ॥ स्थाने १ निषदने २ त्वग्वर्त्तने ३ निद्रायां ४ प्रचलायां ५ स्वाध्याये ६ ध्याने ७ आहारे ८ 10 विचारे ९ कायोत्सर्गे १० चेति दशसु पदेषु दकतीरे विधीयमानेषु प्रत्येकं मासलघु, असामाचारीनिष्पन्नमिति भावः || २३९९ ॥ अथ निद्रा प्रचलयोः स्वरूपमाह - ६८२ सुहपडिबोहो निद्दा, दुहपडिबोहो उ निद्दनिद्दा य । पयला होइ ठियस्सा, पयलापयला य चंकमओ ॥। २४०० ॥ सुखेन-नखच्छोटिकामात्रेणापि प्रतिबोधो यस्मिन् स सुखप्रतिबोधः, एवंविधः खापविशेषो to निद्रेत्युच्यते । यत्र तु दुःखेन महता प्रयत्नेन प्रतिबोधः स निद्रानिद्रा । तथा स्थितो नामउपविष्ट ऊर्द्धस्थितो वा तस्य या खापावस्था सा प्रचला । या तु 'चङ्क्रमतः ' गतिपरिणतस्य निद्रा सा प्रचलाप्रचला । अत्र च निद्रा प्रचलयोरधिकारे यन्निद्रानिद्रा - प्रचलाप्रचलयोर्व्याख्यानं तदनयोरप्यत्रैवान्तर्भावो द्रष्टव्य इति ज्ञापनार्थम् || २४०० ॥ अर्थं विस्तरतः प्रायश्चित्तं वर्णयितुकाम आह 20 संपामे असंपामे व दिट्ठे तहेव अट्ठेि । I पण लहु गुरु लहुगा, गुरुग अहालंद पोरुसी अहिया ।। २४०१ ॥ दकतीरे 'सम्पातिमेऽसम्पातिमे' वा' उभयस्मिन्नपि वक्ष्यमाणलक्षणे दृष्टोऽदृष्टो वा तिष्ठति । कियन्तं पुनः कालम् ? इत्याह--- यथालन्दं पौरुषीमधिकं वा पौरुषीम् । तत्र यथालन्दं त्रिधा— जधन्यं मध्यममुत्कृष्टं च । तत्र स्त्रिया आर्द्रः करो यावता कालेन शुष्यति तद् जघन्यम्, उत्कृष्टं 25 पूर्वकोटिप्रमाणम्, तयोरपान्तराले सर्वमपि मध्यमम् । अत्र जघन्येन यथालन्देनाधिकारः । एवं यथालन्दादिभेदात् त्रिविधं कालं दकतीरे तिष्ठतः पञ्चकं लघुको गुरुको मासः लघुका गुरुकाश्चत्वारो मासाः प्रायश्चित्तम् । एतदुपरिष्टाद् ( गा० २४०३ ) व्यक्तीकरिष्यते ॥ २४०१ ॥ १ °ति - यत्रास्माकं स्त्रियो मज्जनादि कुर्वन्ति तत्रैष श्र° भा० ॥ २ पाः । " इत्थी सविसेस मिहुणेसु” त्ति ये सस्त्रीकाः पुरुषास्तेषु मैथु' भा० ॥ ३ चिट्ठित्तु निसीइत्ता तुयह ता० ॥ ४ थ विभागतः प्रा भा० ॥ ५ मे वा दृष्टोऽ° भा० ॥ ६ मो० ले० विनाऽन्यत्र — लन्दमिति काल उच्यते । स च त्रिधा - जघन्यो मध्यम उत्कृष्टश्च । तरुणस्त्रिया उदकाईः करो यावता कालेन शुष्यति स जघन्यः, उत्कृष्टः पूर्वकोटिप्रमाणः, तयोरपान्तराले सर्वोऽपि मध्यमः । भा० ॥ ७° तरुणस्त्रिया उदकाईः क त डे० कां ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy