SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [चिलिमिलिकाप्र० सू० १८ यद्वा या प्रातिहारिकी गच्छं सकलमपि वेष्टयति सा गणनयैका, प्रमाणेन त्वनियता ॥२३७५॥ असतोण्णि खोमिरजू, एकपमाणेण जाउ वेढेइ । कडहूवागादीहिं, पोत्तऽसइ भए व वागमई ॥ २३७६ ॥ रज्जुचिलिमिलिका पूर्वमौर्णिकदवरकरूपा । तस्या अभावे क्षौमिकदवरकात्मकाऽपि कर्तव्या । 5 सा च सेर्वेषामपि साधूनां प्रत्येकं » गणनयैकैका, प्रमाणेन तु हस्तपञ्चकदीर्घा भवति; गणाबच्छेदिकहस्ते वा एक एव दवरको भवति यः सकलमपि गच्छं । शीतादिरक्षायै - वेष्टयति । कडहूर्नाम-वृक्षविशेषः, तस्य यद् वल्कम् आदिशब्दात् पलाश-शणादिसम्बन्धीनि वल्कानि, तैर्निर्वृत्ता वल्कमयी, सा च "पोत्तऽसई" त्ति वस्त्र चिलिमिलिकाया अभावे 'भये वा' स्तेनादिसमुत्थे गृह्यते ॥ २३७६ ॥ देहाहिओ गणणेको, दुवारगुत्ती भये व दंडमई । संचारिमा य चउरो, भय माणे कडमसंचारी ।। २३७७॥ देहं-शरीरं तस्य प्रमाणादधिको यो दण्डकः स देहाधिकः, स च समयपरिभाषया देहात् चतुरङ्गुलाधिकप्रमाणा नालिका भण्यते, एतावता प्रमाणप्रमाणमुक्तं द्रष्टव्यम् । स च देहाधिको दण्डको गणनयैकैकस्य साधोरेकैको भवति । तैश्च दण्डकैः श्वापदादिभये 'द्वारगुप्तिः' द्वारस्य 16 स्थगनं क्रियते । एषा दडमयी द्रष्टव्या । एताश्चादिमाश्चतस्रश्चिलिमिलिका वसतेर्वसर्ति क्षेत्रात् क्षेत्रं सचरन्तीति सञ्चारिमा उच्यन्ते । कटकमयी तु असञ्चारिमा । 'माने च' प्रमाणे द्विविधेऽपि तो कटकमयीं चिलिमिलीं 'भज' विकल्पय, अनियतप्रमाणेत्यर्थः । तत्र प्रमाणमङ्गीकृत्य यावता वक्ष्यमाणं कार्य पूर्यते तावत्प्रमाणा कटकचिलिमिली, गणनया तु योकः कटः कार्य न प्रतिपूरयति ततो द्विन्यादयोऽपि तावत्सङ्ख्याकाः कटा ग्रहीतव्या यावद्भिस्तत् कार्य पूर्यते 20॥ २३७७ ॥ गतं द्विविधप्रमाणम् । अथ 'उपभोगो द्विपक्षे' इति पदं विवृणोति सागारिय सज्झाए, पाणदय गिलाण सावयभए वा । अद्धाण-मरण-चासासु चेव सा कप्पए गच्छे ॥ २३७८ ॥ सांगारिके पश्यति खाध्याये विधातव्ये प्राणदयायां विधेयायां ग्लानार्थ श्वापदभये वा उत्पनेऽध्वनि मरणे वर्षासु चैव 'सा' चिलिमिलिका कल्पते 'गच्छे' गच्छवासिनां साधूनां परिभो3B तुम् । एष नियुक्तिमाथासमासार्थः ॥ २३७८ ॥ अथैनामेव प्रतिपदं विवृणोति पडिलेहोभयमंडलि, इत्थी-सागारियट्ठ सागरिए । घाणा-ऽऽलोग ज्झाए, मच्छिय-डोलाइपाणेसु ॥ २३७९ ॥ १°गादीहि व, पो. भा. कां० ता० ॥ २-३ एतन्मध्यगतः पाठः भा० का० नास्ति ॥ ४°या नालिका भण्यते । एतत् प्रमाणप्रमाणमुक्तम् । गणनाप्रमाणेन त्वेकैकस्य साधोरेकैको नालिकादण्डको भवति । तैश्च दण्डकैः श्वापदादिभये वाशब्दाद् अन्यस्मिन् वा तथाविधे कार्ये 'द्वार' कां•॥ ५ तावान् कटो ग्रहीतव्यः, गण° कां ॥ ६ सागारिके स्वाध्याये प्राणदयायां ग्लानार्थ श्वापदभये वाऽध्वनि भा० ॥ ७च सहगाथा भा० कां ॥ ८°य-टोला ता० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy