SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ६७० सनिर्युक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ घटीमात्रकप्रकृते सू० १७ अनेन सम्बन्धेनायातस्यास्य व्याख्या – कल्पते 'निर्ग्रन्थीनां ' त्रतिनीनामन्तर्लिप्तं 'घटीमात्रकं' घटीसंस्थानं मृन्मयभाजनविशेषं धारयितुं वा परिहर्त्तु वा । 'धारयितुं नाम' स्वसत्तायां स्थापयितुम् । 'परिहर्तुं' परिभोक्तम् । एष सूत्रार्थः ॥ अंथ निर्युक्तिः घडिमचंतो लित्तं, निग्गंथीणं अगिण्हमाणीणं । चउगुरुगाऽऽयरियादि, तत्थ वि आणाइणो दोसा ।। २३६३ ॥ 'अन्तः' मध्ये 'लिप्तं' लेपेनोपदिग्धं घटीमात्रकं निर्मन्थीनामगृह्णतीनां चतुर्गुरुकाः । " आयरियाइ" ति आचार्य एतत् सूत्रं प्रवर्त्तिन्या न कथयति चतुर्गुरु, प्रवर्त्तिनी आर्यिकाणां न कथयति चतुर्गुरु, आर्यिका न प्रतिशृण्वन्ति मासलघु । ' तत्रापि' घटीमात्रकस्याग्रहणे द्विविप्रतिपादकस्य च प्रस्तुतसूत्रस्य अकथनेऽप्रतिश्रवणे चाज्ञादयो दोषाः ॥ २३६३ ॥ 5 10 20 आह स घटीमात्रकः कीदृशो भवति ? इत्याह 'सः' इति घटीमात्रकः पानकेनात्यन्तभावितत्वादवश्यं न परिश्रवतीत्यपरिश्रावी, 'मसृणः' सुकुमारः, प्रकाशं प्रकटं वदनं मुखमस्येति प्रकाशवदनः, 'मृन्मयः' मृत्तिकानिष्पन्नः, 'लघुकः' 15 खल्पभारः, शुचि-पवित्रं चोक्षमित्यर्थः सितं श्वेतं न कृष्णवर्णाद्युपेतं दर्दरपिधानं - वस्त्रमयं बन्धनं यस्य स शुचि - सित-दर्दरपिधानः । एवंविधः 'अरहसि' प्रकाशप्रदेशे वसत्यां तिष्ठति ॥ २३६४ ॥ अपरिस्साई मसिणो, पगासवदणो स मिम्मओ लहुओ । सुइ- सिय- दद्दरपिहणो, चिट्ठह अरहम्मि वसहीए ॥ २३६४ ॥ सूत्रम् — नो at aaus निग्गंथाणं अंतो लित्तं घडिमत्तयं धारितए वा परिहरितए वा १७ ॥ अस्य व्याख्या प्राग्वत् ॥ अत्र निर्युक्तिः साहू गिण्हइ लहुगा, आणाइ विराहणा अणुवहिति । विइयं गिलाणकारण, साहूण वि सोअवादीसु ॥ २३६५ ।। यदि साधुर्घटीमात्रकं गृह्णाति तदा चत्वारो लघुकाः, आज्ञादयश्च दोषाः, विराधना च संयमा-ऽऽत्मविषया । तत्र " अणुवहि" त्ति साधूनामयमुपधिर्न भवति । किमुक्तं भवति : - 25 यत् किल साधूनामुपकारे न व्याप्रियते तद् नोपकरणं किन्त्वधिकरणम्, जं जुज्जइ उवयारे, उवगरणं तं सि होइ उवगरणं । अइरेगं अहिगरणं, (ओघनिर्युक्ति गा० ७४१ ) इति वचनाद्, यच्चाधिकरणं तत्र परिस्फुटैव संयमविराधना । आत्मविराधना त्वतिरिक्तो - पघिभारवहनादनागाढपरितापनादिकी । “बिइयं" ति द्वितीयपदमत्र भवति । किं पुनः तत् ? १ अथ माष्यम् मा० कां० ॥ २ 44 एतन्मध्यगतः पाठः भा० त० डे० कां० नास्ति ॥ ३ अत्र भाष्यम् भा० कां० ॥ ४ का । अत्र द्वितीयपदं भवति - ग्लानकारणे साधूनां शौचदादिषु वा सागारिकेषु घटीमात्रकग्रहणं भवति । एतदुत्तरत्र कां० भा० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy