SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः १७२७-३२] प्रथम उद्देशः । ५११ 1 अथ “एगो खमए बिइयपय वुड्डमाइन्ने" ( गा० १७२६ ) त्ति पदं व्याख्यानयति-» जा मुंजड़ ता वेला, फिट्टइ तो खमग थेरओ वाऽऽणे । .. तरुणो व नायसीलो, नीयल्लग-भावियादीसु ॥ १७३०॥ “जा भुंजइ" त्ति प्राकृतत्वादेकवचनेन निर्देशः, यावद् वा साधवो भुञ्जते तावत् पानकस्य वेला "फिट्टति" व्यतिक्रामति ततः 'क्षपकः' उपवासिकः 'स्थविरो वा' वृद्धोऽशङ्कनीय इति । कृत्वा कल्पकरणार्थमेकाक्यपि “आणे" त्ति पानकमानयेत् । तरुणो वा यः 'ज्ञातशीलः' दृढधर्मा निर्विकारश्च स एकाक्यपि निजकानां-मातृ-पितृपक्षीयखजनानां कुलेषु भावितकुलेषु वा आदिशब्दादन्येप्वपि तथाविधकुलेषु प्रविश्य पानकं गृह्णीयात् ॥ १७३० ॥ अथात्रैव कल्पकरणद्वारे विध्यन्तरं बिभणिपुर्टारगाथामाह विईयपय मोय गुरुगा, ठाण निसीयण तुयट्ट धरणं वा । 10 गोबरपुंछण ठवणा, धोवण छटे य दव्वाइं ॥ १७३१ ॥ 'द्वितीयपदे' अपवादाख्ये साधवो व्रजिकां गता भवेयुः, तत्र च पानकं न लब्धमिति कृत्वा यदि पात्रं 'मोकेन' प्रश्रवणेनाऽऽचमन्ति ततश्चत्वारो गुरवः । शिप्यः प्राह-यदि मोकेनाऽऽचमने दोषास्ततो रात्रौ स्थानं निषदनं त्वग्वर्त्तनं वा कुर्वन् संसृष्टपात्रकस्य धारणं करोतु । सूरिराह-एवंकुर्वतः संयमा-ऽऽत्मविराधना भवति, ततो गोबरेण-गोमयेन पात्रकस्य प्रोञ्छनं-15 घर्षणं कृत्वा स्थापनं कर्त्तव्यम् । ततो द्वितीयदिवसे यदि द्रवं ग्रहीतव्यं तदा 'धावनं' कल्पत्रयप्रदानं कर्त्तव्यम् । अथ भक्तं ग्रहीतव्यं ततो न कल्पत्रयं दातव्यम् । “छटे य दबाई" ति शिप्यः प्राह-यद्यधौते पात्रे भक्तं गृह्यते ततो ननु तत्र यान्यवयवद्रव्याणि पर्युषितानि सन्ति तैः षष्ठव्रतमतिचरितं स्यादिति नियुक्तिगाथासङ्केपार्थः ॥ १७३१ ॥ विस्तरार्थं तु बिभणिपुराह वइगा अद्धाणे वा, दव असईए विलंवि सूरे वा। जइ मोएणं धोवइ, सेहऽन्नह भिक्ख गंधाई ॥ १७३२॥ बजिका-गोकुलं तस्यां कारणे गतानामध्वनि वा वहमानानां 'द्रवस्य' पानकस्य 'असति' अप्राप्तौ 'विलम्बिनि वा' अस्तङ्गतप्राये सूर्ये यदि पानकं नास्ति ततः कथं कल्पः करणीयः ? । अत्र नोदकः स्वच्छन्दमत्या प्रतिवचनमाह-मोकेन तदानीं पात्रमाचमनीयम् । आचार्यः प्राह-एवं ते स्वच्छन्दप्ररूपणां कुर्वतो यथाच्छन्दत्वात् चत्वारो गुरवः प्रायश्चित्तम् । यश्च 23 मोकेन पात्रकमाचामति तस्यापि चतुर्गुरवः । कुतः ? इत्याह--यदि मोकेन धावति तदा शैक्षाणाम् अन्यथाभावः-विपरिणमनं भवेत् , विपरिणताश्च प्रतिगमनादीनि कुर्युः । द्वितीये च दिवसे भिक्षार्थ पात्रके प्रसारिते सति कायिक्याः कुथितो गन्धः समायाति ततो लोकः प्रवचनावर्णवादं कुर्यात्-अहो ! अमीभिरस्थिकापालिका अपि निर्जिता यदेवं पात्रकं प्रश्रवणेनाच १N एतचिह्नान्तर्गतमवतरणं भा० पुस्तके एव वर्तते ॥ २°तो यः 'क्ष भा० ॥ ३ द्धो भुक्तोत्थितोऽश° भा० ॥ ४°काः-मातृ-पितृपक्षप्रतिबद्धाः सम्बन्धिनस्तेषां कुले भा० ॥ ५ "बिइयपद० गाहा पुरातना" इति । ६°ति द्वारगाथा भा० ॥ ७°चार्य आह त. डे०॥
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy