SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः १५५७-६४ ] प्रथम उद्देशः । ४५९ ____ गुरुगा लहुगा गुरुगो, लहुओ मासो य अच्छंते ॥ १५६० ॥ अननुज्ञाते दिवसत्रयादूर्द्ध 'निष्कारणे वा' कारणं विना प्रथमदिवसादूई गुर्वादीनां चतुर्णामपि तिष्ठतां यथाक्रमं गुरुका लघुका गुरुको लघुकश्च मासः । इयमत्र भावना-आचार्यस्वाननुज्ञाते निष्कारणे वा तिष्ठतश्चत्वारो गुरवः, वृषभस्य चत्वारो लघवः, अभिषेकस्य गुरुमासः, भिक्षोर्ल घुमासः ॥ १५६० ॥ आह किंनिमित्तमित्थं प्रायश्चित्तमापद्यते ? उच्यते नेहामु त्ति य दोसा, जे पुव्वं वणिया कइयमादी। ते चेव अणट्ठाए, अच्छते कारणे जयणा ॥ १५६१ ॥ 'नैष्यामः' नागमिष्याम इत्युक्ते ये पूर्व क्रियितादयः' वसतेर्माटकसमर्पण-विक्रयणादयो दोषा वर्णितास्ते चैव अर्थः-प्रयोजनं तदभावोऽनर्थ तेन प्रयोजनमन्तरेणेत्यर्थः, तत्र प्रामे तिष्ठतां दोषाः । किमुक्तं भवति ?-तत्र ग्रामे रसगौरवबहुलतया तेषां तिष्ठतां कालविलम्बलगनात् 10 चिकीर्षितमासकल्पे क्षेत्रे वसतिं शय्यातरो भाटकेन समर्पयेत् विक्रीणीत वा धान्यादिना वा प्रियेत बटुकादीनां वा दद्यात् ततस्त एवात्मविराधनादयो दोषाः । कारणे तु तिष्ठतां यतना, एकं द्वौ त्रीन् वा दिवसान स्थित्वा तथा गन्तव्यं यथा विलम्बमन्तरेण तत् क्षेत्रं प्राप्यत इति भावः । एवमेतेन विधिना वजन्तस्तावद् गता यावद् मूलक्षेत्रम् ॥ १५६१ ॥ ततः किम् ? इत्याह 15 भत्तट्ठिया व खमगा, पुचि पविसंतु ताव गीयत्था । परिपुच्छिय निद्दोसे, पविसंति गुरू गुणसमिद्धा ॥ १५६२ ॥ ते हि भक्तार्थिनः क्षपका वा सन्तस्तत्र क्षेत्रे प्रविशन्ति । 'भक्तार्थिनः' भोक्तुकामाः, 'क्षपकाः' उपोषिताः । तत्र च पूर्वं तावद् गीतार्थाः प्रविशन्तु । ततस्तैः गीतार्थैः 'परिपृच्छय' शम्यातरं पृष्ट्वा निर्दोषे उपाश्रये सुनिश्चिते सति प्रविशन्ति गुरवो गुणसमृद्धाः । साभिप्रायकमिदं विशे-१७ पणम् । ते हि भगवन्तो गुरवो गुणैः समृद्धाः, अतो यदि प्रथमं प्रविश्य सव्याघातां वसतिं मत्वा प्रतिनिवर्तन्ते ततो भवति महानवर्णवादः, यथा-एतेषामेतदपि ज्ञानं नास्तीति, ततः पश्चात् प्रविशन्ति ॥ १५६२ ॥ अथैनामेव गाथां विवरीषुराह बाहिरगामे वुच्छा, उजाणे ठाण वसहिपडिलेहा । [ओघ. भा. १०४] इहरा उ गहियभंडा, वसहीवापाय उड्डाहो ॥ १५६३ ॥ 25. प्रत्यासन्ने बाह्यग्रामे उषिताः प्रत्युषसि विवक्षितक्षेत्रस्योद्यानमागम्य तत्र स्थानं कुर्वन्ति । यैः क्षेत्रं प्रत्युपेक्षितं ते वसतिप्रत्युपेक्षणार्थ प्रेष्यन्ते । 'इतरथा' यदि वसतिमप्रत्युपेक्ष्य प्रविशन्ति ततो मासलघु । सा वसतिरन्येषां प्रदत्ता भवेत् ततः 'गृहीतभाण्डाः' गृहीतोपकरणा वसतिव्याघाते सत्यपरां वसतिमन्वेषयन्त इतस्ततः पर्यटन्ति, तथाभूतांश्च दृष्ट्वा उडाहो भवेत्, यथा-अहो ! निप्परिग्रहा निर्ग्रन्था इति ॥ १५६३ ॥ ततः किं विधेयम् ! इत्याह- 30 तम्हा पडिलेहिय साहियम्मि पुवगत असति सारविए । [ओघ.भा.१११] फड्डगफड्ड पवेसो, कहणा न य उद्दऽणायरिए ॥ १५६४ ॥ तस्मात् चिलिमिली-दण्डकपोञ्छने गृहीत्वा वसतिं प्रत्युपेक्ष्य यदि सा नान्येषां प्रदचा
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy