SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ क्षेत्रप्रत्यु. क्षेत्रेषु 15 ४५० सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ . पेक्षकैनि विइयं सुत्तग्गाही, उभयग्गाही य तइयगं खेत्तं । [ओ.नि. १६२] वेदितेषु आयरिओ उ चउत्थं, सो उ पमाणं हवइ तत्थ ॥ १५२६ ॥ 'गुरोः' आचार्यस्य 'इच्छाग्रहणं' शिप्याणामभिप्रायपरीक्षणं भवति-आर्याः ! कथयत 'कुत्र' गन्तव्यक्षेत्रस्य कस्यां दिशि व्रजामः ? इति । ततो ये 'औदरिकाः' खोदरभरणैकचित्तास्ते 'क्षुभिताः' सम्भ्रान्ताः निर्णयः 5सन्तो भणन्ति-प्रथमां दिशं व्रजामो यत्र प्रथमपौरुप्यामेव प्रकामं भोजनमवाप्यते । तामेव दिशं "अणुओगतत्तिल्ल" त्ति अनुयोगग्रहणैकनिष्ठाः शिप्या गन्तुमिच्छन्ति, येन द्वितीयपौरुप्यां निर्व्याघातमर्थग्रहणं भवति ॥ १५२५ ॥ ___ ये तु सूत्रग्राहिणस्ते भणन्ति—द्वितीयां दिशं गच्छामः यत्र न सूत्रपौरुषीव्याघात इति । ये तूभयग्राहिणस्ते 'तृतीयं' तृतीयदिग्वर्ति क्षेत्रमिच्छन्ति, तत्र हि द्वयोरप्याद्यपौरुप्योर्निर्व्याघातं 10 सूत्रार्थग्रहणे भवतः । आचार्यास्तु चतुर्थ क्षेत्रं गन्तुमिच्छन्ति, यतस्तत्र त्रिष्वपि कालेषु बालवृद्धाद्यर्थ सामान्यभक्तं प्राघूर्णकाद्यर्थं पुनरवभाषितं दुग्धादिकं प्रायोग्यं प्राप्यते, न च कोऽपि सूत्रार्थयोर्व्याघात इति । स एव च' आचार्यः 'तत्र' तेषां मध्ये प्रमाणं भवति ॥ १५२६ ॥ आह किं पुनः कारणं येनाचार्याश्चतुर्थक्षेत्रमिच्छन्ति ? इति अत आह--- मोहुब्भवो उ बलिए, दुब्बलदेहो न साहए अत्थं । [ओ.नि.१६३] तो मज्झवला साहू, दुट्ठस्से होइ दिटुंतो ॥१५२७॥ __ प्रथम-द्वितीय-तृतीयेषु क्षेत्रेषु प्रचुरस्निग्ध-मधुराहारप्राप्तेः शरीरेण बलवान् भवति, बलवतश्चावश्यम्भावी मोहोद्भवः । एवं तर्हि यत्र भिक्षा न लभ्यते तत्र गत्वा बुभुक्षाक्षामकुक्षयस्तिष्ठन्तु, नैवम् , दुर्बलदेहः साधुन साधयति 'अर्थ' ज्ञान-दर्शन-चारित्ररूपम् । यत एवं ततः 'मध्यबलाः' नातिबलवन्तो न वाऽतिदुर्बलाः साधव इप्यन्ते । दुष्टाश्वश्व भवत्यत्र दृष्टान्तः–'दुष्टाश्वः' 20 गर्दभः, स यथा प्रचुरभक्षणादुद्दर्पितः सन् उत्प्लुत्य कुम्भकारारोपितानि भाण्डानि भिनत्ति, भूय स्तेनैव कुम्भकारेण निरुद्धाहारः सन् भाण्डानि वोढुं न शक्नोति; स एव च गर्दभो विमध्यमाहारक्रियया प्रतिचर्यमाणः सम्यग् भाण्डानि वहति । एवं साधवोऽपि यदि स्निग्ध-मधुराभ्यवहारतः शरीरोपचयभाजो भवन्ति, तत उत्पन्नदुर्निवारमोहोद्रेकतया संयमयोगान् बलादुपमृद्गु(दी)युः, आहाराभावे त्वतिक्षामवपुषः सन्तः संयमयोगान् वोढुं न शक्नुयुः; मध्यमबलोपेतास्तु व्यपगतौ25 सुक्या अनुद्विग्नपरिणामाः सुखेनैव संयमयोगान् वहन्तीति मत्वा क्षेत्रत्रयं परिहृत्याचार्याश्चतुर्थ क्षेत्रं व्रजन्ति ॥. १५२७ ॥ किञ्च पणपन्नगस्स हाणी, आरेणं जेण तेण वा धरइ । [ओ.नि.१६४] जइ तरुणा नीरोगा, वचंति चउत्थगं ताहे ॥ १५२८ ॥ पञ्चपञ्चाशद्वार्षिकस्य मानुषस्य विशिष्टाहारमन्तरेण 'हानिः' बलपरिहाणिर्भवति । "आरेणं" ति 30 पञ्चपञ्चाशतो वर्षेभ्य आराद् वर्तमानो येन वा तेन वा आहारेण 'ध्रियते' निर्वहति । ततो यदि ते साधवस्तरुणास्तथा नीरोगास्ततश्चतुर्थमेव क्षेत्रं व्रजन्ति न शेषाणि ।। १५२८ ॥ जइ पुण जुन्ना थेरा, रोगविमुक्का व असहुणो तरुणा । [ओ.नि.१६५] १°ण्डकानि मो० ले० ॥
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy