SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सनिर्युक्ति-भाप्य-वृत्तिके बृहत्कल्पसूत्रे आलंबणमलहंती, जह सट्टाणं न मुंचए इलिया । एवं अकयतिपुंजो, मिच्छं चिय उवसमी एति ॥ १२० ॥ इह या तृणादिषु सुखप्रदेशेन सर्वतोऽग्रेतनं स्थानं परिभाव्य ततोऽग्रेतनं स्थानं सङ्क्रामति अन्यथा पश्चाद्वलते सा इलिका यथा पुरत आलम्बनमलभमाना स्वस्थानं न मुञ्चति; एवमकृB तत्रिपुञ्जो गत्यन्तराभावाद् मिथ्यात्वमेवोपशमी याति । इयमत्र भावना - 1 - द्विविधस्तत्प्रथमतया सम्यग्दर्शनप्रतिपत्ता, अतिविशुद्धो मन्दविशुद्धश्च । तत्र योऽतिविशुद्धः सोऽपूर्वकरणमारुढो मिथ्यात्वं त्रिपुञ्जीकरोति, कृत्वा चानिवृत्तिकरणे प्रविष्टस्तत्प्रथमतया क्षायोपशमिकं सम्यग्दर्शनमासादयति सम्यक्त्वपुञ्जोदयात् । यस्तु मन्दविशुद्धः सोऽपूर्वकरणमप्यारूढस्तीत्राध्यवसायाभावात् न मिथ्यात्वं त्रिपुञ्जीकर्त्तुमलम्, ततोऽनिवृत्तिकरणमुपगतोऽन्तरकरणं कृत्वा तत्र 10 प्रविष्टस्तत्प्रथमतया औपशमिकसम्यग्दर्शनमनुभवति, अन्तरकरणं चान्तर्मुहूर्तप्रमाणम्, अतस्तदद्धाक्षयेऽन्येषां पुद्गलानामभावेतो मिध्यात्वमेति ॥ १२० ॥ एतदेवाह - ३८ [ नन्दी - ज्ञानपञ्चकम् खीणम्मि उदिन्नम्मी, अणुइज्जंते य सेसमिच्छते । अंतोमुहुर्त्तकालं, उचसमसम्मं लहइ जीवो ।। १२१ ॥ अनिवृत्तिकरणे प्रविष्टस्य यद् मिध्यात्वं उदीर्णम् - उदयावलिकाप्रविष्टं तस्मिन् क्षीणे शेषे 15 च मिथ्यात्वेऽपान्तरालेऽन्तरकरणतोऽनुदीयमानेऽन्तर्मुहूर्तं कालमौपशमिकं सम्यक्त्वं जीवो लभते, मिथ्यात्वदर्शन वेदनाऽभावात् ॥ १२१ ॥ सोऽपि कथम् ? इत्यत आह ऊसरदेसं दवेलयं च विज्झाइ वणदवो पप्प | इयमिच्छस्स अणुदए, उवसमसम्मै मुणेयव्त्रं ॥ १२२ ॥ यथा वनदवः ‘ऊसरदेशं’ तृणादिरहितं प्रदेशं दग्धं वा प्राप्य विध्यायति, 'इति' एवम20 न्तरकरणे प्रविष्टस्य मिथ्यात्वपुद्गलाभावात् 'मिथ्यात्वस्य' मिथ्यादर्शनस्य अनुदयः - अवेदनम् ततस्तस्मिन् सत्यौपशमिकं सम्यक्त्वं ज्ञातव्यम् ॥ १२२ ॥ किञ्च - जिम्हीभवंति उदया, कम्माणं अत्थि सुत्त उवदेसो । उववायादी सायं, जह नेरइया अणुभवंति ॥ १२३ ॥ द्विविधेऽप्यौपशमिकसम्यग्दृष्टौ शेषाणामपि कर्मणामुदया जिल्ह्मीभवन्ति । न चैतद्वचनमा25 त्रम्, यतोऽस्त्येव 'सूत्रे' ग्रन्थान्तररूपे साक्षादुपदेशः, यथा - नैरयिका उपपातादौ सातमनुभवन्तीति ॥ १२३ ॥ एनमेव दर्शयति Jain Education International उववारण व सायं, नेरईओ देवकम्णा वा वि । अज्झवसाणनिमित्तं, अहवा कम्माणुभावेणं ।। १२४ ॥ १ पुंजी मिच्छम्मि उ उव ता० ॥ २वतो मिथ्यात्वपुद्गलवेदना [त्] मिथ्या भा० ॥ ३ म य अ° ता० ॥ ४ °तमित्तं उच ता० विना ॥ ५ मं लभति जीवो ता० ॥ ७ झीमीभवंति ता• । “झीमीभवंति त्ति मंदीभवंति” इति चूर्णौ ॥ इया दे° ता० ॥ ६ 'देसं तृ° भा० कां० ॥ ८ यथाऽस्त्येव भा० ॥ ९ For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy