SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ २४ सनिर्युक्ति-भाष्य-वृत्तिके बृहत्कल्पसूत्रे [ नन्दी - ज्ञानपञ्चकम् र्वोत्कृष्टो बादरस्कन्धस्तत्र बहवो गुरुलघुपर्यायाः सर्वस्तोका अगुरुलघुपर्यायाः । इह बादरस्कन्धेष्वप्यगुरुलघवः पर्यायाः सन्ति, परमुत्कलिता गुरुलघुपर्याया इति त एव तत्र शेषकालं गण्यन्ते । सम्प्रति तु वस्तुस्थितिश्चिन्त्यते इत्यल्पबहुत्व चिन्तायां ते चिन्तिताः । तस्मात्सर्वोत्कृष्टाद् बादरस्कन्धाद् येऽधस्तना बादरस्कन्धास्तेषु गुरुलघुपर्यायाः क्रमेणानन्तगुणहान्या द्रष्टव्याः, अगुरुलB घुपर्यायाः पुनरनन्तगुणवृद्ध्या । एवं च तावज्ज्ञातव्यं यावत्सर्वजघन्यो बादरस्कन्धः । उक्तञ्च— परमाणु संखऽसंखा, सुहुमाणताण बायराणं च । एएसिं रासीतो, कमेण सव्वे ठवेऊणं ॥ सिं जो अंतिमओ, सव्वुकोसो य बाय संधो । तस्स बहू गुरुलहुया, अगुरुलहू पज्जवा थोवा ॥ तत्तो हिट्ठाहुत्ता, अणंतहाणीऍ गुरुलहू नेया । अगुरुलहू वुद्धीए, एवं ता जाव उ जहन्नो || 10 15 20 एतदेवाह - ते गुरुलहुपजाया, पण्णा छेदेण वोकसित्ताणं । जी बायरो जहणो, अनंतहाणी हायंता ॥ ६८ ॥ ते गुरुलघुपर्यायाः प्रज्ञाच्छेदनकेनाऽगुरुलघुपर्यायेभ्यः 'व्युत्कृष्य' पृथक् कृत्वा सर्वोत्कृष्टाद् बादरस्कन्धादधस्तनेषु बादरस्कन्धेप्वनन्तगुणहान्या हीयमानास्त वद्रष्टव्या यावज्जघन्यो बादरस्कन्धः, अगुरुलघुपर्यायास्तु क्रमेणानन्तगुणवृद्ध्या प्रवर्धमानाः । ततः परं सूक्ष्मानन्तप्रदेशादिषु स्कन्धेषु केवला अगुरुलघुपर्याया एव क्रमेणानन्तगुणवृद्ध्या प्रवर्धमाना द्रष्टव्याः, ते च तावद् यावत् परमाणवः । उक्तञ्च - ते परं सुहुमाओ, अनंतवुड्डीऍ नवर बढता । अगुरुलहो चिय केवल, जा परमाणू य ता नेया ॥ ॥ ६८ ॥ १ बहुचिन्ता कां २ भा० ॥ २ थूरदविसु जाव तु, अणंतहाणीय परमाणू इत्युत्तरार्थं ता० । चूर्णिकृतैष एव पाठ आहतः । दृश्यतां टिप्पणी ३ ॥ ३ गाथेयं चूर्णिकृतैवं व्याख्याता - " ते गुरु० गाधा । ते गुरुपजाया लघुपज्जाया य प्रज्ञाच्छेदेन अवणिजति थूलदविएहिं आढवेत्ता जाव परमाणू । थूला बादरपरिणता अनंतपदेसिता संधा, तेसिं गुरुपज्जा एहिंतो लघुपजाया अनंतगुणहीणा । तदणंतरा सुहुमपरिणया अनंतपएसिया संधा, तेसिं बादरपरिणताणंत एसिय खंधलघुपजाए हिंतो अनंतगुणहीणा गुरुपज्जाया, तग्गुरुपज्जा एहिंतो य अनंतगुणवड्ढिया लहुपजाया । एवं जहा जहा बहुमा तहा तहा गुरुपजाया अनंतहाणीए हायंति, लहुपज्जाया अनंतवुड्ढीए वडुंति, जाव दुपएसियलहुपजएहिंतो अनंतगुणहीणा परमाणुगुरुपज्जाया, तग्गुरुपजाए हिंतो य अनंतगुणवड्डिया लहुपज्जाया" । एतद्गाथानन्तरमेव टीकाक्रुद्भिरनादृता "णंतपसाणं” इति गाथा चूर्णो व्याख्याताऽस्ति । तथा हि"आह भणिया पोग्गलाणं गुरु-लहुपजायाण हाणी बुड्ढी य । एतेसिं पुण के कतो बहुया थोवा वा ? उच्यते - सव्वथोवा अणतपएसिया संधा तपसाणं पिय, सव्त्रत्थोवा उ बादरा खंधा । तेसि पि वग्गणाओ, हवंति णंताओ सट्टाणे ॥ तप गाइद्धं । ते केवविया भेदेणं ? तेसिं० पच्छद्धं । जहा कुचिकन्नस्स गावीणं (१) ॥ तत्तो य० पुव्वर्द्ध” ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy