SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ४७-५६ ] पीठिका | पुव्वं पि अणुवलद्धो, घिप्पर अत्थो उ कोइ ओवम्मा । जह गोरेवं गवयों, किंचिविसेसेण परिहीणो ॥ ५२ ॥ पूर्वमनुपलब्धोऽपि कोऽप्यर्थ औपम्याद् गृह्यते, यथा गौरेवं गवयः, नवरं किञ्चिद्विशेषेण परिहीनः, कम्बलकविरहित इत्यर्थः । अत्रेयं भावना - 'यथा गौस्तथा गवयः' इति श्रुत्वा कालान्तरेणाटव्यां पर्यटन् गवयं दृष्ट्वा 'गवयोऽयम्' इति यदक्षरजातं लभते एषा औपम्योप - 6 लब्धिः ॥ ५२ ॥ इदानीमागमत उपलब्धिमाह - अत्तागमप्यमाणेण अक्खरं किंचि अविसयत्थे वि । भवियाsभविया कुरवो, नारग दियलोय मोक्खो य ॥ ५३ ॥ आप्ताः - सर्वज्ञाः तत्प्रणीत आगम आप्तागमः, स एव प्रमाणमाप्तागमप्रमाणम्, तेन अविषयेऽप्यर्थे किञ्चिदक्षरं लभते । यथा - भव्योऽभव्यो देवकुरव उत्तरकुरवो नारका देवलोको मोक्षः, 10 चशब्दादन्ये च भावाः । इयमत्र भावना - आप्तागमप्रामाण्यवशात् तस्मिंस्तस्मिन् वस्तुनि योऽक्षरलाभ:, यथा- भव्य इति अभव्य इति देवकुरव इत्यादि, सा आगमोपलब्धिः ॥ ५३ ॥ एषा सर्वाऽप्युपलब्धिः संज्ञिनां भवति, असंज्ञिनां तु का वार्ता ? इत्यत आहओण असनीण अत्थलंभे वि अक्खरं नत्थि । १९ Jain Education International --- तं पुण हत्थ नियतं अजहत्थं वा वि वंजणं दुविहं । एगमगपरिययं, एमेव य अक्खरेसुं पि ।। ५६ ।। अत्थो चिrसनीणं, तु अक्खरं निच्छए भयणा ॥ ५४ ॥ असंज्ञिनाम् ‘अर्थलाभेऽपि' अर्थदर्शनेऽपि 'उत्सन्नेन' एकान्तेन 'नास्यक्षरं' नैवाक्षरलाभः । तथाहि शङ्खशब्दं श्रुत्वाऽपि न तेषामेषा लब्धिरुपजायते, यथा 'अयं शङ्खशब्द:' इति । एवं शेषेन्द्रियेष्वपि भावनीयम् । संज्ञिनां पुनः 'अर्थ एवाक्षरं' अर्थोपलम्भकाल एवाक्षरलाभः, यथा शङ्खशब्दश्रवणकाल एव 'शङ्खशब्द:' इति । 'निश्चये पुनः भजना' 'शङ्खशब्द एवायम्, शार्ङ्गशब्द एवायम्' इति वा निश्चयगमनं स्याद्वा न वा । एवं शेषेन्द्रियेष्वपि भावनीयम् ॥ ५४ ॥ 20 गतं लब्ध्यक्षरम्, अधुना व्यञ्जनाक्षरमाह- अत्थाभिर्वजगं वंजणक्खरं इच्छितेतरं वदतो । औपम्य त उप लब्धिः रूवं व पगासेणं, वंर्जेति अत्थो जैओ तेणं ॥ ५५ ॥ इह यद् विवक्षितं तदेव यदि वदति, यथा 'अधं भणिष्यामि' इति तदेव ब्रूते, तदा तद् ईप्सितम् । अन्यद् विक्षित्वाऽन्यच्चेदुच्चरति तदा तद् 'इतरद्' अनीप्सितम् । ईप्सित - 25 मितरद्वा वदतो यद् अर्थाभिव्यञ्जकमभिधानं तद् व्यञ्जनाक्षरम् । अथ कस्माद् व्यञ्जनाक्षरमुच्यते ? नाऽभिधानाक्षरम् ? अत आह- 'रूपमिव' घटादिकमिव 'प्रकाशेन' दीपादिना तमसि वर्त्तमानम् 'अर्थः' घटादिः 'यतः' यस्माद् 'व्यज्यते' प्रकटीक्रियते 'तेन' कारणेन व्यञ्जनाक्षरमित्युच्यते ॥ ५५ ॥ For Private & Personal Use Only १ गो एवं ता० ॥ २ उस्सन्ने ता० ॥ ३ इत्यादि कां २ ॥ ४ वज्जति ता० विना ॥ ५ जयो ता० ॥ ६ अत्र "विवक्ष्य" इति स्याच्चेत् साधु ॥ ७ परिगयं ता० विना ॥ आगम त उप लब्धिः 15. असंज्ञि नामक्ष. रानुपलब्धिः व्यञ्जना क्षरम् व्यञ्जना क्षरस्य 30 भिन्नभि अप्रकारैः द्वैविध्यम् www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy