SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ७२४-२५] पीठिका। २२३ ७२२ ॥ ७२३ ॥ भाविता सप्रपञ्चं योगविराधना । अथाऽऽत्मा परश्च परित्यक्त इति पदद्वयं भावयति-- अप्पत्ताण उदितेण अप्पओ इह परत्थ वि य चत्तो। सो वि अ हु तेण चत्तो, जं न पढइ तेण गव्वेणं ॥ ७२४ ॥ 'अपात्राणाम्' अयोग्यानां यद्वा 'अप्राप्तानां' विवक्षितानुयोगभूमिमनुपागतानां श्रुतं । ददता उत्सारकल्पकृता आत्मा इह परत्रापि च त्यक्तः, तत्रेह तद्वाचनादानसमुद्भूतांपयश:प्रवादादिना परत्र तु बोधिदुर्लभत्वादिना । तथा सोऽपि शिष्यः 'हु' निश्चितं तेन' आचार्येण परित्यक्तः, यत् तेन गणि-वाचकत्वादिगणाधिष्ठितः सन् न पठति, पठनाभावे हि कुतो यथावत् चरण-करणप्रतिपालनम् ? « इति भावः । प्रवचनमपि तेन परित्यक्तम् , कथम् ? इति चेद् उच्यते-तस्य वाचकत्वप्रवादं श्रुत्वा केचित् सहृदया वाग्मिनो बहुविधग्रन्थ-10 दृश्वानस्तत्परीक्षां कर्तुकामा यदा कमपि सिद्धान्तार्थ प्रश्नयेयुरिति तदाऽसावप्रबुद्धत्वाद् न किमपि तात्त्विकं निर्वचनमभिधातुमीशः । ततस्ते चिन्तयन्ति-अहो! परिफल्गु प्रवचनममीषाम् , यत्रेदशा अपि वाचकपदमध्यारोप्यन्ते । ततः केचिद् देशविरति केचित् सर्वविरतिं प्रतिपित्सवो यदि विपरिणमन्ते ततः प्रवचनं परित्यक्तमवसातव्यम् ।। ७२४ ॥» किश्चअजस्स हीलणा लज्जणा य गारविअकारणमणजे । 15 आयरिए परिवाओ, वोच्छेदो सुतस्स तित्थस्स ॥ ७२५ ॥ आर्यः-सुजनः सुमानुषमित्येकोऽर्थः, तस्य यथावदागमार्थावबोधविकलस्य वाचकनाना हीलना भवति-अहो! हीलेयं मम यदहं 'वाचक ! वाचक !' इत्यभिधीये। तथा "लज्जण"त्ति 'वाचकमिश्राः ! कथयत कथमयमालापकः सिद्धान्ते विद्यते ? छाको वाऽस्याऽऽलापकस्यार्थः ?' इति केनापि पृष्टस्य व्याकरणं दातुमशक्नुवतो भृशं लज्जा भवति। ततश्च 20 श्यामवदनः कुजीकृतकन्धरश्चिन्तया विमनायमानोऽवतिष्ठते । हा 'अनार्ये' अनार्यस्य १°श्च यथा परित्यको भवति तथाऽभिधातुकाम आह भा० ॥२°तापकीर्तिप्रवादेन पर' भा०॥३१ एतचिहान्तर्गतोऽयं चूर्णिप्रन्थानुसारी पाठः भा० त० का प्रतिष्वेव वर्तते । तथा चात्र चूर्णिग्रन्थ:-"अप्पा परोय कधं चत्तो भवति? उच्यते-अप्पत्ताण. गाधा ॥ कंठा। अपात्राणामित्यर्थः । “पवयणं कधं परिवत्तं ? सो भण्णति वायओ ताधे केयि पडुणो पुरिसा एंति-पुच्छामो वायगं सिद्धतं । प्रच्छिते ण किंचि जाणति ताधे ते जाणंति-णूणं सव्वं पवयणं णिस्सारं जत्थेरिसो आयरिओ वायओ। तत्थ केयि देसविरतिं सव्वविरतिं वा पडिवजितुकामा विपरिणमंति । एवं पवयणं परिचत्तं ॥ किंचअजस्स० गाधा ॥” इति ॥ ४ कर्तुमायाताः सन्तो यदा कमपि सिद्धान्तार्थ परिप्रश्नयन्ति तदा भा०॥ ५ भा० विनाऽन्यत्र-व्यम् ॥ ७२४ ॥ अथाऽऽत्म-पर-प्रवचनपरित्यागानेव प्रकारान्तरेणाह किञ्च त० कां० ॥ ६ यः खल्वार्यः-सजनो भवति तस्य यथावत्सिद्धान्ताववोधविकलस्य 'वाचक' इत्याख्ययाऽभिधीयमानस्य हीलना भवति भा० । “यो पार्यो जनो भवत्यसौ हि 'वाचक' इत्यपदिश्यमानो लजते" इति चूर्णिः ॥ ७°चको वाचकः' इ. भा० ॥ ८ कोऽस्या मो० ले० कां ॥९ तया च विच्छायवदनः भा०॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy