SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ६५६-६६४] पीठिका । १९७ अथैनामेव गाथां विवरीषुः प्रथमद्वितीयपृच्छयोरेकगाथया परिहारमाह दिट्ठमदिट्टे दिटुं, खमतरमियरे न दिस्सए काया। दहिमाईहि अरिकं, वरं तु इयरे सिया पाणा ॥ ६६१॥ दृष्टा-ऽदृष्टयोः पात्रयोर्मध्ये दृष्टं क्षमतरम् , क्षमशब्द इह युक्तार्थः, ततश्च क्षमतरम्-अहष्टादतिशयेन ग्रहीतुं युक्तम् । कुतः ? इत्याह-'इतरस्मिन्' अदृष्टे "न दीसए"त्ति प्राकृत-5 त्वादेकवचनम् न दृश्यन्ते 'कायाः' पृथिव्यादयः। तथा दध्यादिभिरिति आदिग्रहणाद् मोदकादिपरिग्रहः तैः 'अरिक्तं' पूर्ण वरम् , 'इतरस्मिन्' रिक्ते 'स्युः' भवेयुः कदाचित् 'प्राणोः' कुन्थुप्रभृतयो जीवाः । यदि पुनर्न तत्र प्राणसम्भवस्तदा तदपि सम्यगुपयुज्य गृढतां न दोषः ॥ ६६१ ॥ अथ कृतमुखा-ऽकृतमुखयोः किं कृतमुखं ग्राह्यम् ? उताकृतमुखम् ? उच्यतेअकयमुहे दुप्पस्सा, वीयाई छयणाइ दोसा वा । 10 कुंथूमादवहंते, फासुवहंतं अओ धनं ॥ ६६२॥ अकृतमुखे भाजने 'दुर्दर्शाः' दुःप्रत्युपेक्षा बीजादयो जीवाः, तत्र बीजानि तदुद्भवानि, आदिशब्दात् त्रसादिपरिग्रहः, छेदन-भेदनादयो वा दोषास्तत्र भवेयुः, यत एवं ततो अकृतमुखं परिहर्त्तव्यम् । अथ वहमानका-ऽवहमानकयोः कतरत् श्रेष्ठम् ? इत्याह-कुन्थ्वादयः सत्त्वा अवहमानके प्रायः सम्भवन्ति । अथ प्राशुकेन वस्त्रादिना वहमानकं-व्याप्रियमाणं 15 यत् तत् पात्रं धनाय हितमिति 'धन्यं' संयमधनोपकारकमित्यर्थः ।। ६६२ ॥ अथ संसृष्टादि पृच्छात्रयं प्रतिविधते एमेव य संसहूं, फासुअ अप्फासुएण पडिकुटुं। उक्खित्तं च खमतरं, जं चोल्लं फासुदग्वेणं ।। ६६३ ॥ 'एवमेव' यथा वहमानकं तथा संसृष्टमपि । यत् प्राशुकेन भक्तादिना संसृष्टं-खरण्टितं 20 तत् प्रशस्यम् , अप्राशुकेन पुनः संसृष्टं 'प्रतिक्रुष्टं' निषिद्धम् । उत्क्षिप्त-निक्षिप्तयोर्मध्ये यद आत्मप्रयोगेणैव गृहिणा पात्रमुत्क्षिप्तं तद् निक्षिप्तात् 'क्षमतरं' युक्ततरम् । यच्चाई प्राशुकद्रव्येण तक्रादिना तत् पात्रं श्रेयः, अर्थादापन्नम्-अप्राशुकेणाद्रे परिहार्यम् ॥ ६६३ ॥ अथ किं प्रकाशमुखं गृह्यताम् ? अप्रकाशमुखं वा ? उच्यते ___ होइ पगासमुह, जोग्गयरं तं तु अप्पगासाओ। यद् भवति प्रकाशमुखं तत् तु 'योग्यतरं संयमा-ऽऽत्मविराधनाया अभावाद विशेषेण योग्यम् 'अप्रकाशाद्' अप्रकाशमुखभाजनात् ॥ इत्थं पात्रस्य प्रशस्या-ऽप्रशस्यरूपतामुपवर्ण्य तस्यैव विधिशेषमभिधातुमुपक्रमते __ तस-वीयाइ अदटुं, इमं तु जयणं पुणो कुणइ ॥ ६६४ ॥ "तस-बीयाइ"इत्यादि पश्चार्धम् । तत् पात्रं चक्षुषा प्रत्युपेक्ष्य यदि त्रस-वीजादिकं जन्तु-30 १हः तैर्दध्यादिभिः 'अ° भा०॥ २°णाः' द्वीन्द्रियादय आगन्तुकजीवाः भा० ॥ ३ तदपि पात्रं भा० ॥ ४ "हार्यम्, यत् पुनः शुष्ककुन्थ्वादित्रसरहितं तद् निर्विवाद ग्राह्यम् ॥ ६६३ ॥ अथ भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy