SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ६०७ - ६०९ ] पीठिका | १७९ त्रयश्चतुर्लघवः, मध्यमे त्रीणि मासिकानि, 'अन्तिमे' जघन्ये' त्रीणि पञ्चरात्रिन्दिवनि । अत्र च भावना पूर्वगाथायां कृतेति न भूयो भाव्यते ॥ ६०७ ॥ उक्तं यथाकृता दिविपर्यासग्रहणे प्रायश्चित्तम् । सम्प्रत्युत्कृष्टादिविषये विपर्यासेन ग्रहणे करणे च तदाहएयरनिग्गओ वा, अन्नं गिण्हिज तत्थ सद्वाणं । 5 " छित्तूण सिव्विऊण व, जं कुणइ तगं न जं छिंदे ॥ ६०८ ॥ जघन्यादीनामेकतरस्यार्थाय निर्गतो वाशब्दो वैपरीत्यस्य प्रकारान्तरद्योतने 'अन्यत्' येन न प्रयोजनं तद् गृह्णीयात् तत्र स्वस्थानप्रायश्चित्तम् । तद्यथा — उत्कृष्टस्य निर्गतो मध्यमं गृह्णाति मासिकम् जघन्यं गृह्णाति पञ्चकम् ; मध्यमस्य निर्गत उत्कृष्टं गृह्णाति चतुर्लघु, जघन्यं गृह्णाति पञ्चकम् ; जघन्यस्य निर्गत उत्कृष्टं गृह्णाति चतुर्लघु, मध्यमं गृह्णाति मासलघु; तथाऽऽज्ञाभङ्गादयश्च दोषाः । यत् तेन विवक्षितवस्त्रेण कार्य तस्यान्येनाप्रतिपूरणम् । जघन्येन प्रयो- 10 जने समापतिते मध्यमोत्कृष्टयोर्गृह्यमाणयोरतिरिक्तोपकरणदोषः । तथोत्कृष्टादिकं छिवा सीवित्वा वा यद् मध्यमादिकं करोति "तगं" ति तन्निष्पन्नं प्रायश्चित्तम्, न पुनर्यच्छिनति तन्निष्पन्नम् । तथाहि —उत्कृष्टं छित्त्वा मध्यमं करोति मासलघु, जघन्यं करोति पञ्चकम् ; मैध्यमं छित्त्वा सीवित्वा चोत्कृष्टं करोति चतुर्लघु, जघन्यं करोति पञ्चकम् ; जैघन्यं सीवित्वा उत्कृष्टं करोति चतुर्लघु, मध्यमं करोति मासलघु इति । एवं यत् करोति तन्निष्पन्नमेव प्राय- 15 श्चित्तमापद्यते, न पुनश्छिद्यमान - सीव्य मानवस्त्र निष्पन्नम् । अत्राप्याज्ञाभङ्गादयो दोषा द्रष्टव्याः । नवरं विराधना द्विधा -- संयम विराधना आत्मविराधना च । संयमविराधना वस्त्रे छिद्यमाने सीव्यमाने वा तद्गताः षट्पदिकादयो विनाशमापद्यन्ते । आत्मविराधना हस्तोपघातादिका । तथा यावद् वस्त्रं छिद्यते सीव्यते वा तावत् सूत्रा -ऽर्थपरिमन्थ इत्यादयो दोषा अभ्यू वक्तव्याः । यत एवं दोषजालमुपढौकते ततः कारणाभावे छेदन - सीवनादि न कर्तव्यम् 120 कारणे तु यतनया कुर्वाणः शुद्धः ॥ ६०८ ॥ अथ वस्त्रस्य गवेषणे कति प्रतिमा गच्छबासि - नाम् ? कति गच्छनिर्गतानाम् ? इत्यत आह उद्दिसि पेह अंतर, उज्झियधम्मे चउत्थए होइ । उपडिमा गच्छ जिणे, दोन्हऽग्गहऽभिग्गहडनयरा ॥ ६०९ ॥ यद् वस्त्रं गुरुसमक्षम् 'उद्दिष्टं' प्रतिज्ञातं यथा 'अमुकं जघन्यं मध्यममुत्कृष्टं वा 25 आनेष्ये' तदेव गृहिभ्यो याचमानस्योद्दिष्टवस्त्र मिति प्रथमा प्रतिमा । तथा "पेह" ति प्रेक्षाअवलोकनं तत्पुरस्सरं यद् वस्त्रं याच्यते तत् प्रेक्षावस्त्रम् । तथाऽभिनवं वस्त्रयुगलं परिवाय १वानि । भावना तु पूर्वगाथायां कृतैवेति न भो० ॥ २ मध्यमानि च्छित्त्वा भा० विना ॥ ३ जघन्यानि सीवित्वा भा० विना ॥ ४ इत्येतदभिधित्सुराह भा० ॥ ५ " उद्दिलिय "त्ति उद्दिष्टवत्रम् । इयमत्र भावना - यद् वस्त्रमदृट्रैव याच्यमानं 'प्रयोजनमस्माकममुकेन सौत्रिकेणौर्णिकेनापरेण वा' इत्याद्युल्लेखेन साधुभिर्गृहस्थस्य पुरत उद्दिश्यते-अभिदृष्टं धीयते तदुद्दिष्टम् । तथा "पेह"त्ति प्रेक्षणं प्रेक्षा विलोकनं निरीक्षितमिति पर्यायाः, प्रेक्षापुरस्सरं यद् वस्त्रं याच्यते भा० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy