SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १२३ भाष्यगाथाः ४१९-२६] पीठिका। उक्तं मनुष्यापातवद् । अधुना तिर्यगापातवदाह दित्तमदित्ता तिरिया, जहण्णमुक्कोस मज्झिमा तिविहा । एमेवेत्थि-नपुंसा, दुगुंछिय-ऽदुगुंछिया नवरं ॥ ४२४ ॥ तिर्यञ्चो द्विविधाः-दृप्ता अदृप्ताश्च । दृप्ता दर्पवन्तः, अदृप्ताः शान्ताः । ते प्रत्येक त्रिविधाः-जघन्या उत्कृष्टा मध्यमाश्च । जघन्या एडकादयः, मध्यमा महिषादयः, उत्कृष्टा । हस्त्यादयः । एते किल पुरुषा उक्ताः । एवमेव स्त्री-नपुंसका अपि वक्तव्याः । नवरं ते दृप्ता अदृप्ताश्च प्रत्येकं द्विविधा विज्ञेयाः, तद्यथा-जुगुप्सिता अजुगुप्सिताश्च । जुगुप्सिता गर्दभ्यादयः, इतरे अजुगुप्सिताः । उक्तमापातवत् । संलोकवद् मनुष्येष्वेव द्रष्टव्यम् । ते च मनुष्यास्त्रिविधाः, तद्यथा-पुरुषाः स्त्रियो नपुंसकाश्च । एकैके प्रत्येकं त्रिविधाः-प्राकृताः कौटुम्बिका दण्डिकाश्च । पुनरेकैके द्विविधाः-शौचवादिनोऽशौचवादिनश्च । उक्तञ्च- 10 आलोगो मणुएसुं, पुरिसित्थि-नपुंसगाण बोधवो । पायय कुडुबि दंडिय, असोय तह सोयवादीणं ।। तदेवमापात-संलोको चरमभङ्गे, द्वितीये आपातः, तृतीये संलोकः । उक्ता भेदप्रभेदयुक्ता एते स्थण्डिलभेदाः ॥ ४२४ ॥ गतं भेदद्वारम् । अधुना शोधिद्वारमाह मणुय-तिरिएसु लहुगा, चउरो गुरुगा य दित्ततिरिएसु । 15 शोधिद्वा तिरियनपुंसित्थीसु य, मणुयस्थि-नसगे गुरुगा ॥ ४२५ ॥ मनुष्याणां शौचवादिनां पुरुषाणां तिरश्चां च पुरुषाणामहप्तानामापाते गाथायां सप्तमी षष्ठ्यर्थे संज्ञा व्युत्सृजतः प्रायश्चित्तं चत्वारो लघुकाः । “गुरुगा य दित्ततिरिएसु" इति दृप्तानां तिरश्चामापाते चत्वारो गुरुकाः । तथा 'तिर्यनपुंसक-स्त्रीषु' तिर्यग्योनीनां नपुंसक-स्त्रीणां दृप्तानामापाते "मणुस्सत्थी (मणुयत्थि) नपुंसगे" इति मनुष्याणां स्त्री-नपुंसकानां शौचवादिना-20 मापाते प्रत्येकं प्रायश्चित्तं चत्वारो गुरुकाः ॥ ४२५ ॥ मणुय-तिरियपुंसेसुं, दोसु वि लहुगा तवेण कालेण । कालगुरू तवगुरुगा, दोहिँ गुरू अद्धोकंती वा ॥ ४२६ ॥ मनुष्याणामशौचवादिनां पुरुषाणां तिरश्चामहप्तानां पुरुषाणामापाते द्वयानामपि पृथक् पृथक् प्रायश्चित्तं चत्वारो लघुकास्तपसा कालेन च लघवः । मनुष्यस्त्री-नपुंसकानामशौचवादिनामापाते 25 चत्वारो गुरुकाः द्वाभ्यां गुरुकाः, तद्यथा-कालगुरुकास्तपोगुरुकाः । अर्धपक्रान्तिर्वा द्रष्टव्या। सा चैवम्-तिरश्चां दृप्तानां पुरुषाणामापाते मनुष्याणां गृहिणां पाषण्डिनां वा पुरुषाणामशौचवादिनामापाते चत्वारो लघुकाः कालगुरुकाः, तिर्यस्त्री-नपुंसकानामहप्तानामजुगुप्सिता १ "मणुयतिरिएसु' गाथाष्टकं कण्ठ्यम् । सोधि त्ति गतम् ।" इत्यनेन चूर्णिप्रन्थेन चर्णिकृता "भद्द तिरी पासंडे." ४२९ गाथां यावत् शोधिद्वारसत्कं गाथाष्टकमावेदितम् इति "पागय कोडंबिय." इति ४२७ गाथाटीकायां टीकाकृद्भिः “उक्तं च" इति उल्लिख्य यत् “पागइयऽसोयवादी." इत्यादि माथात्रिकं निष्टङ्कितं रमतेन भाष्यसत्कमिति सम्भावयामः । न खल्वेतत् "पागइयसोयवादी." इत्यादिकं गाथात्रिकमसत्पार्श्ववर्तिनीषु भाष्यप्रतिषु कापि दृश्यते ॥ तत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002510
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 01
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages296
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy