SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उल्लास • आधपादत्रयमेव विमलम्भोदाहरणम् । क्रूरेत्यादि वाक्यान्तरं भावाभिव्यञ्जकम् । अतः शठेन, विधिनेत्यस्य नानेन तुल्यता, तत्र समाप्तिपर्यन्तं यावत्-तावत्पदाभ्यामेकवाक्यत्वेनैवान्वयात् । यूनोरेकतरस्मिन् गतवति लोकान्तरं पुनर्लभ्ये। विमनायते यदैकस्तदा भवेत् करुण-विप्रलम्भः ॥ इति। . मूर्च्छितनायकादिविषयः करुण-विप्रलम्भोऽन्योऽप्यस्तीति प्राश्वः। अथ हास्यादीनां उदाहरणम् - आकुश्चय पाणिमशुचिं मम मूर्ध्नि वेश्या मनाम्भसा प्रतिपदं पृषतैः पवित्रे । तारखरं प्रहित)त्कमदात् प्रहारं हाहा हतोऽहमिति रोदिति विष्णुशर्मा ॥ हाहा हतोऽहमित्यन्तेन तादृशमुच्चार्येत्यर्थः । शर्मान्तनामश्रवणे हि हसितं स्यात् । अत्र विष्णुशर्मा आलम्बनम् , तस्य रोदनमुद्दीपनम् , द्रष्टुरुद्वेगजाड्यादयो व्यभिचारिणः, स्मितहसितातिहसितानि उत्तम-मध्यमेष्वनुभावाः । यस्य हासस्तदनिबन्धेऽपि सामर्थ्यात् तदवसायः । तदुक्तम् - यस्य हासः स चेत् कापि साक्षान्नैव निबध्यते। तथाऽप्येष विभावादिसामर्थ्यादवसीयते ॥ विकृतवाग्वेषादिदर्शनेनावश्यं हास्योदयाद् अत्र हास्यो रसः । करुणमाह हा मातस्त्वरिताऽसि कुत्र [प.१२.२] किमिदं हा देवताः काशिषो धिक् प्राणान् पतितोऽशनि तवहस्तेऽङ्गेषु दग्धे दृशौ । इत्थं घर्घरमध्यरुद्धकरुणाः पौराङ्गनानां गिर- . चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ॥ तादृक्पूजादिभिरप्यरक्षणात् देवताक्षेपः । विविधदानादितपितानां द्विजानामाशीर्भिरपि न किञ्चित् कृतमित्याह - केति । मध्यरुद्ध इति बाप्पबाहुल्येनान्तरावस्थानम् । इत्थमिति गिर इत्यनेनान्वितम् । अत्र नृपयोषिदालम्बनम् , तत्शरीरवहिसंयोगादि उद्दीपनम् , नोदन. मनुभावः, दैन्यग्लानिमूर्छादयः सञ्चारिणः । रौद्रमाह. कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिदायुधैः । नरकरिपुणा सार्द्ध तेषां सभीमकिरीटिना मयमहमसृग्मेदोमांसैः करोमि दिशां बलिम् ॥ १ 'काव्यस्य इति टिप्पणी' । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002506
Book TitleKavya Prakasha Khandana
Original Sutra AuthorSiddharshi Gani
AuthorRasiklal C Parikh
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1953
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy