SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ गूर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचितं यात्राप्रसङ्गेन जगाम येषु, पुरेषु पौरोच्छिततोरणेषु । तेषामधीशैः सविशेषमेष, सम्मान्यमानः सममानयत् तान् ॥ अभ्यर्थ्यमानः पथिकैरनेकैर्वस्तून्यनेकान्यपि वस्तुपालः । तेभ्यः प्रभूतानि पथि प्रयच्छन् , नाहङ्करोति स्म न कुप्यति स्म ॥ गीतानि जैनोन्युचितानि गातुं, जनो जगौ वर्मनि मध्यमध्ये । प्रमोदपूरोद्गतरोमराजिर्निरन्तरं तस्य पुनर्यशांसि ॥ अनुक्रमेण प्रसृताऽस्य साधोः, साँ धोरणी यात्रिकधोरणानाम् । वैमानिकैयोमनि नाकिलोकैर्भूमानयष्टिप्रतिमा व्यलोकि ॥ . पुरश्च पृष्ठेऽपि च पार्श्वयोश्च, परिस्फुरन्तः खरहेतिहस्ताः । यात्राजनं वर्मनि तस्य शश्वदश्वाधिरूढाः सुभटा ररक्षुः ॥ समुद्भुतैर्जीर्णजिनेन्द्रहम्नवैः सरोभिश्च सरोजरम्यैः । प्रस्थानमार्गः सचिवस्य सोऽभूदजानतामप्युपलक्षणीयः ।। यावन्ति बिम्बानि जिनेश्वराणां, श्वेताम्बराणां च कदम्बकानि । मार्गेषु तेषां मुषिताश्रितार्तिः, पूजां स निवर्त्य ततः प्रतस्थे ॥ स पञ्चषैनिर्विषमप्रपञ्चप्रयाणकैः प्रीणितसङ्घलोकः । धराधरं धर्मधुरन्धरः श्रीशत्रुञ्जयं शत्रुजयी जगाम ॥ आरुह्य सह्यादपि सुन्दरेऽस्मिन्नश्मोच्चये कश्मलमुक्तचेताः । मन्त्री मिलन्मर्त्यकृतोपमर्द, कपर्दिनं नाम ननाम यक्षम् ॥ स कर्दमैस्तस्य तनु कपर्दियक्षस्य यक्षोपपदैर्विलिप्य । पुष्पैरनेकैर्विलसद्विवेकस्त्रिलोकपूज्यस्य चकार पूजाम् ।। अध्वश्रमध्वस्तसमस्तपापभरेण भूरेणुभृता जनेन । शृङ्गावलिव्याप्तवियन्मुखोऽपि, सोऽयं सुखेनाऽऽरुरुहे महीध्रः ।। तत्राऽऽदिनाथस्य नमस्यमूर्तेः, स्नात्रं च पूजां च विधाय मन्त्री । पुरः कुरङ्गीनयनाः प्रमोदनॅत्यन्मना नृत्यमकारयत् सः ।। संश्लिष्टमष्टापदपृष्ठपट्टे, तं दृष्टवान् विष्टपवन्दनीयम् । अमेयतेजोमयमण्डलस्थं, यथा पुमांसं परमं स मन्त्री ॥ विरच्यमाने सचिवेन तेन, पूजाविधौ पूज्यतमस्य तस्य । सकुङ्कुमस्नानजलच्छलेन, गलनिवाऽऽलोक्यत भोगरागः ॥ न केवलं केवलिचक्रवर्ती, हृच्चक्रवर्ती सचिवस्य सोऽभूत् । शुश्रूषयाऽप्येष विशेषवत्या, तत्याज नान्तःकरणं तेदीयम् ।। .१ जैनानुचि वा० ॥ २ सृतस्य प्र० कां० ॥ ३ साधारणी या वा० कां । सा धोरणिर्या मु० ॥ ४ 'तभव्यलों वा० मु० ॥ ५ महीन्ध्रः वा० । महोन्द्रः मु० ॥ ६ स्नान व मु०॥ ७ 'नृत्यात्मना वा० मु० ॥ ८ ‘क्य ततोऽङ्गरागम् मु० ॥ ९ यदीयम् वा० मु० ॥ २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy