SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ गूर्जरेश्वरपुरोहितनीसोमेश्वरदेवविरचितं [हितीचा • श्रीवीरधवलस्तस्य, सूनुर्वीरशिरोमणिः । युद्धे जयश्रियं धन्व-ज्यारावैराजुहाव येः ॥ ७६ आत्मानमात्मजे तस्मिन्नशेषगुणभूषणम् । स पिता दर्पणप्राये, सङ्क्रान्तमिव पश्यति॥ ७५ बाहुभ्यामिव विक्रान्तो, दन्ताभ्यामिव कुञ्जरः । अधृष्यः पितृ-पुत्राभ्यां, वंशस्ताभ्यां बभूव सः ॥ ५८ कृतविश्वमुदाऽनेन, दानेन प्रतिवासरम् । सुतेन जनता तेन, तातेन च समृध्यते ।। अप्यरातिशराधातजातव्रणनतोन्नते । वीरलक्ष्मीश्चिरं यस्यै, वस्तुं वक्षसि वाञ्छति ॥ वीरः समरकासारे, शिरोभिः सह वैरिणाम् । करीव पुण्डरीकाणि, कन्दयुक्तानि योऽग्रहीत् ॥ अरातिराजन्यशराभिघातैः, प्रघातभूमौ पतितोत्थितो यः । गम्भीरवीरेन्द्रबलाम्बुराशेर्लब्धेच गाधं पुनरुन्ममज ।। . अथैकदा कन्दलितप्रतापसन्तापिताशेषविपक्षपक्षः । निशावसाने न निशातबुद्भिः, प्राबुध्यत श्रीलवणप्रसादः ।। प्रबुद्धमात्रोऽपि कुमारपुत्रमाकारयामास नृपावतंसः । पुरोधसे तत् किल रात्रिदृष्टं, शिष्टाय तस्मै विनिवेदयिष्यन् ।। समेत्य सोमेश्वरदेवनामा, नमस्य ते स्वस्ति निगद्य चास्मै । प्रसन्नमूर्तेः पुरतः स तस्य, दृष्टादरो विष्टरमाससाद ॥ पुरस्कृतस्यास्य पुरः पुरारिप्रसादलब्धं लवणप्रसादः । वीरेण तेनानुगतः सुतेन, तं स्वप्नमित्थं कथयाम्बभूव ।। ___ जानेऽद्य विद्याधरसुन्दरीभिर्दरीगृहद्वारविहारिणीभिः । शृङ्गारितं शृङ्गमहं महादेरारूढवानूढवृषध्वजस्य । कृतासनं तन्मणिवेदिकायां, जायाङ्कितामर्धतर्नु दधानम् । प्रसन्नवक्त्राब्जमहं सिताजैर्जगत्पतिं पूजयितुं प्रवृत्तः । विसृज्य पूजामथ मन्मथारेः, समाधिमुद्रां विदधामि यावत् । तावत् पुरः कामपि वामनेत्रां, राकामिवाऽऽकारवतीमपश्यम् । श्वेतांशुतुल्यं वदनं वहन्ती, श्वेतांशुकां श्वेतविलेपनां ताम् । श्वेतां कराग्रे दधतीं च मालामालोक्य बालीमतिविस्मितोऽस्मि ॥ कस्यासि ? काऽसि ? त्वमिहासि कस्मादिति ब्रुवे यावदुपागतां ताम् । तावत् तयैवाभिहितोऽस्मि कान्तदन्तद्युता दत्तसितातपत्रः ।। हे वीर ! वैरिध्वजिनीगजेन्द्रगण्डस्थैलीखण्डनखड्गचण्ड ! । प्रत्यर्थिसार्थेन कदर्यमानां, जानीहि मां गूर्जरराज्यलक्ष्मीम् ॥ १ सः मु० ॥ २ °स्य वासं वक्ष मु० ॥ ३ प्रपात प्र० ॥ ४ लब्धामगा प्र. । लग्घरगाचं मु० ॥ ५ वा. आदर्श पदच्छेददर्शनद्वारा नमस्यते इति एकं पदं दर्शितमस्ति ॥ तुभ्यम् प्र० टि० ॥.७ ईश्वर वा० टि० ॥ ८ कैलाश प्र० टि० ॥ ९ ध्यानम् प्र० टि० ॥ १० पुनः मु.॥ ११ लामिति वा० ॥ १२ °लीमण्डनखण्डचण्ड वा० मु० ॥ १३ राजल मु० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy