SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ . [ द्वितीय १२६ श्रीमदरिसिंहविरचितं तरलतारलतागृहपङ्कज-च्छदनचन्दनचन्द्रमरीचिभिः । तपनतापनताकृतिरप्यसौ, रतिवरोऽतिवरोरुषु जृम्भते ॥ नभसि दर्पणतुल्यतडिल्लता, जलदपद्धतिरुद्धतडम्बरा । मदनसैन्यगजवजवद् बभौ, कृतरवा तरवारिसितेतरा ॥ वियदमीमिलदर्क-निशाकर-द्वयमये नयने भयतो भृशम् । यदतुलां तडितं धनमालिका-धिकरवा करवालमिवाक्षिपत् ॥ यदयमेतदवाप्य तपस्विनां, हृदि हतोऽपि जिजीव मनोभवः । अपि भुजङ्गभुजां शुशुभे सुधा-कवचनं वचनं शिखिनां ततः ॥ मदभिवर्धितसिन्धुमहीरुह-वजविशोषकमेतदिति क्रुधा । अधिककर्ममहः सहसा धनैः, कवलितं वलितं तडितां मिषात् ॥ अपरता परतापक्रकण्टिका-हतककेतककेलिषु षट्पदी । अमलकोमलकोरकसौरभ-स्थितिषु जातिषु जातरसाऽभवत् ॥ अलकलोलमधुव्रतमञ्जुलाऽ-म्बुजमुखी जघनोज्ज्वलसैकता । शरदि हंसरवेण समाश्रिता, धृतरसा तरसा तटिनीवधूः ॥ कचन भर्तरि याति तपात्यये, घनघटाश्रुजलानि मुमोच न । विरहवद् दधती तपनं व्यथा-प्रदममन्दममङ्गलशङ्कया ॥ युग्मम् ॥ पदमधत्त गतस्य पयोमुचः, सुहृदशून्यमसौ शिखिनां गणः । गलितपत्रमयातपवारणैरविभवं विभवं महसां क्षिपन् ।। समुदिते मुदितेऽम्बुरुहि प्रिये कुलवये वलये सरितां तथा । अभृत सम्भृतसम्पदमर्यमा-च्छविमलं विमलं च विधुर्महः ॥ खररुचेर्विजयाय निजद्विषः, सहसि साहसिकीव विभावरी । प्रतिदिनं परितः परिवर्धितो-त्तमहिमा महिमानमुपाययौ ॥ तुहिनमन्दतरां मलिनेऽब्जिनी-मलिनि मुञ्चति रागपरामपि । करणिकाभिरहो ! शतपत्रिकाः, सह सितं हसितं परितन्वते ॥ पदमकारि मुखे सुदृशां सदा, विमलकान्तिनि कुङ्कुममण्डिते । हिमरुचः कमलस्य च सम्पदा, हिमनिकामनिकारबिनुन्नया ॥ तुहिनवाहिनवाद्भुतवातभी-रुचितकुञ्चितकुङ्कुमकैतवात् । वरतनूरतनूष्मणि भास्वरा-तपततिः पतति स्तनमण्डले ॥ हिमभरस्य तपःप्रथितोन्नते-र्वनमहीरुह एव भुजो भृशम् । • निजरिपोरपि निर्गमनोद्यम, दिनकरो न करोति कथञ्चन ॥ १ क-ख अभि भु ॥ २ एतत्पद्यं क-ख पुस्तकयो स्ति ॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy