SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ११४ श्रीमदरिसिंहविरचितं द्वितीय प्रवृत्तनृत्ताः प्रेचलोर्मिपाणिभिः, प्रणीतगीताः कमलास्यपट्पदैः । ' तदा व्यधुः स्वागतमागते जने, विदम्भमम्भःप्रसरेण सिन्धवः ॥ ४५ तदाऽनपाकाय विकाशितः शिखी, ज्वलन् बभौ सङ्घजने निवासिनि । भरानमभूमिभिदास्फुटस्फुर-फगीन्द्रचूडामणिरश्मिराशिवत् ।। अथैष तीर्थङ्करदेवतालय-प्रक्लृपमध्यन्दिनपूजनो जनः । मुदा नमस्कृत्य गुरुक्रमद्वयं, प्रचक्रमे शाश्वतकृत्यकेलिषु ॥ अदायि दीनाय तदा धनं तथा, मनोरथातीतमनेन मन्त्रिणा । यथा परे निश्चयदायिनो जना, वनीपकानामपि चाटु चक्रिरे ॥ - स्वयं स कस्मैचन मोदकादिकं, घृतादि कस्मैचन शुद्धवासनः । फलादि कस्मैचन साधवे ददत् , तदा विशश्राम न मन्त्रिशेखरः ॥ ४९ अकिञ्चनः कश्चन याचते कचित् , किमप्यहो ! शब्दमिति प्रदाप्य सः। चकार भोज्यादिकमात्मना कृती, तृतीययामक्षणपूरितेक्षणः ॥ अथ कृततनुकृत्यः कौतुकोत्तानचेता, जिनपदमनुसङ्घः क्लृप्तसमागात् । इह महमहिमांशुष्टुकामो निकाम, गगनगमनखिनः प्रत्यगद्रौ निषण्णः ॥ ५१ किञ्चपायं पायमहर्निशं रिपुयशःपीयूषपूरं भवान् , कल्पायुः क्षितिकल्पवृक्ष ! भवताल्लक्ष्मीलतालिङ्गितः । श्रीसोमा वयसोममौक्तिकमथैरेव प्रसूनैरिख, ____ त्वत्कीर्त्तिप्रकरैरपि त्रिभुवनं सौरभ्यमभ्यस्यतु ।। मात्यमात्यवर ! नाम्बरे यशः, श्रीवसन्त ! तव सन्ततस्मितम् । इत्यनन्यमहिमानमानशे, मानसाश्रयमहो ! महीयसाम् ॥ समुच्छिताभिः खलु वस्तुपाल-प्रतापदीपाञ्जनमञ्जरीभिः । इहोपकण्ठस्थितिभाजि शङ्ख, मालिन्यमुन्मीलितमुज्ज्वलेऽपि ॥ श्रीवस्तुपालप्रथितप्रसादा-दासन् प्रमोदामृतवारयो याः । एतत्प्रबन्धच्छलतोऽरिसिंह-स्ता एव मूर्ती स्तबकीचकार ।। प्रतिसर्ग प्रबन्धेऽस्मिन्नरिसिंहविनिर्मिते । इमान्यकृत चत्वारि, काव्यान्यमरपण्डितः॥ ५ ॥ इति सुकृतसंकीर्तननाम्नि महाकाव्ये सङ्घप्रस्थानो नाम पञ्चमः सर्गः ॥५॥ १ ग-प्रलो ॥ २ ग-समुत्थिता ॥ Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.002505
Book TitleKirti Kaumudi tatha Sukrut Sankirtan
Original Sutra AuthorSomeshwar Mahakavi, Arisinh Thakkur Kavi
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages168
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy