SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ नौवां अध्ययन : ब्रह्मचर्य-संवर ७३५ न चक्षुषा, न मनसा, न वचसा प्रार्थयितव्यानि पापकर्माणि । एवं स्त्रीरूपविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविरतग्रामधर्मो जितेन्द्रियो ब्रह्मचर्यगुप्तः । (४) चतुर्थ पूर्वरत-पूर्वक्रीडितपूर्वसंग्रथग्रंथसंस्तुता ये ते आवाहविवाहचोलकेषु च तिथिषु यज्ञेषु उत्सवेषु च शृंगारागारचारवेषाभिर्हावभावप्रललितविक्ष पविलासशालिनीभिरनुकूल . प्रेमिकाभिः सार्द्ध मनुभूताः शयनसम्प्रयोगा ऋतुसुख (शुभ) वरकुसुमसुरभिचन्दनसुगन्धिवरवासधूपसुख - (शुभ) - स्पर्शवस्त्रभूषणगुणोपपेता रमणीया ऽऽतोद्यगेयप्रचुरनटनर्तकजल्ल - मल्लमौष्टिकविडम्बककथकप्लवकलासकाख्यायकलंखमंखतूणवत्तुम्बवीणिकतालाचरप्रकरणानि च बहूनि मधुरस्वरगीतसुस्वराणि अन्यानि चैवमादिकानि तपःसंयमब्रह्मचर्यघातोपघातिकानि अनुचरता ब्रह्मचर्य न तानि श्रमणेन लभ्यानि द्रष्टु, न कथयितु, नाऽपि च स्मर्तुम् । एवं पूर्वरतपूर्वक्रीड़ितविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविरतनामधर्मो जितेन्द्रियो ब्रह्मचर्यगुप्तः । (५) पंचमकं आहारप्रणीतस्निग्धभोजनविवर्जकः संयतः सुसाधुर्व्यपगतक्षीरदधिसपिनवनीततेलगुडखंडमत्स्यं डिकामधुमद्यमांसखाद्यकविकृतिपरित्यक्तकृताहारो न दर्पणं, न बहुशो, न नैत्यिक, न शाकसूपाधिकं, न प्रभूतं तथा भोक्तव्यं यथा तस्य यात्रामात्राय भवति, न च भवति विभ्रमो, न भ्रशना च धर्मस्य, एवं प्रणीताहारविरतिसमितियोगेन भावितो भवति अन्तरात्मा आरतमनोविरतग्रामधर्मो जितेन्द्रियों ब्रह्मचर्यगुप्तः। एवमिदं संवरस्य द्वारं सम्यक् संवृतं भवति सुप्रणिहितं एभिः पंचभिः कारणैर्मनोवचनकायपरिरक्षितनित्यमामरणान्तं चैष योगो नेतव्यो धतिमता मतिमताऽनास्रवोऽकलुषोऽच्छिद्रोऽपरिस्रावी असंक्लिष्टः शुद्धः सर्वजिनानुज्ञातः। एवं चतुर्थं संवरद्वारं स्पृष्टं पालितं शोधितं (शोभितं) तीरितं कीर्तितमाजयाऽनुपालितं भवति । एवं ज्ञातमुनिना भगवता प्रज्ञप्तं प्ररूपितं प्रसिद्ध सिद्धवरशासनमिदमाख्यातं सुदेशितं प्रशस्तम् । (सू० २७) चतुर्थं संवरद्वारं समाप्तमिति ब्रवीमि ॥४॥ ___ पदान्वयार्थ—(तस्स चउत्थयस्स) उस चतुर्थसंवर द्वार ब्रह्मचर्यव्रत को (इमा पंच भावणाओ) ये आगे कही जाने वाली पांच भावनाएं, (अबंभचेरवेरमणपरिरक्खणट्ठयाए) अब्रह्मचर्य से विरतिरूप ब्रह्मचर्य को चारों ओर से सुरक्षा के लिए (होंति) हैं । (पढम) पहली असंसक्तवासवसतिसमिति भावना इस प्रकार है—(सयणासण
SR No.002476
Book TitlePrashna Vyakaran Sutra
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyanpith
Publication Year1973
Total Pages940
LanguageHindi
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy