________________
७१
विवेकचूडामणिः. सद्धनं चिद्धनं नित्यमानन्दघनमक्रियम् । एकमेवाद्वयं ब्रह्म नेह नानाऽस्ति किञ्चन ॥ ४६७ ॥ प्रत्यगेकरसं पूर्ण अनन्तं सर्वतोमुखम् । एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥ ४६८ ॥ अहेयमनुपादेयं अनाधेयमनाश्रयम् । एकमेवाद्वयं ब्रह्म नेह नानाऽस्ति किञ्चन ॥ ४६९ ॥ निर्गुणं निष्कलं सूक्ष्म निर्विकल्पं निरञ्जनम् । एकमेवाद्वयं ब्रह्म ह नानास्ति किञ्चन ॥ ४७० ॥ अनिरूप्यस्वरूपं यत् मनोवाचामगोचरम् । एकमेवाद्वयं ब्रह्म नेह नानाऽस्ति किञ्चन ॥ ४७१ ॥ सत् समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनीदृशम् । एकमेवाद्वयं ब्रह्म नेह नानाऽस्ति किञ्चन ॥ ४७२ ॥
॥ आ त्म योग : कर्तव्य : ॥ निरस्तरागा निरपास्तभोगाः
शान्ताः सुदान्ता यतयो महान्तः । विज्ञाय तत्त्वं परमे तदन्ते
प्राप्ताः परां निर्वृतिमात्मयोगात् ॥ ४७३ ॥ भवानपीदं परतत्त्वमात्मनः
___ स्वरूपभानन्दघनं विचार्य । . विधूय मोहं स्वमनःप्रकल्पितं
मुक्तः कृतार्थों भवतु प्रबुद्धः ॥ ४७४ ॥ समाधिना साधुविनिश्चलात्मना
पश्यात्मतत्त्वं स्फुटबोधचक्षुषा । निःसंशयः सम्यगवेक्षितश्चेत्
श्रुतः पदार्थो न पुनर्विकल्पते ॥ ४७५ ॥