SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ विवेकचूडामणिः अखण्डनित्याव्ययबोधशक्तया स्फुरन्तमात्मानमनन्तवैभवम् । समावृणोत्यावृतिशक्तिरेषा तमोमयी राहुरिवार्कविम्बम् ॥ १४१ ॥ तिरोभूते स्वात्मन्यमलतरतेजोवति पुमान् अनात्मानं मोहादहमितिं शरीरं कलयति । ततः कामक्रोधप्रभृतिभिरमुं बन्धकगुणैः परं विक्षेपाख्या रजस उरुशक्तिर्व्यथयति ॥ १४२ ॥ महामोहग्राहग्रसनगलितात्मावगमनो धियो नानावस्थाः स्वयमभिनयन् तद्गुणतया । अपारे संसारे विषयविषपूरे जलनिधौ निमजयोन्मजयायं भ्रमति कुमतिः कुत्सितगतिः ॥१४३॥ भानुप्रभासञ्जनिताभ्रपङ्किः भानु तिरोधाय यथा विजृम्भते । आत्मोदिताहङ्कतिरात्मतत्त्वं तथा तिरोधाय विजृम्भते स्वयम् ॥ १४४ ॥ कबलितदिननाथे दुर्दिने सान्द्रमेधैः व्यथयति हिमझञ्झावायुरुग्रो यथैतान् ।। अविरततमसाऽऽत्मन्यावृते भूढबुद्धि क्षपयति बहुदुःखैस्तीवविक्षेपशक्तिः ॥ १४५ ॥ एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः । याभ्यां विमोहितो देहं मत्वाऽऽ मानं भ्रमत्ययम् ॥ १४६ ॥ बीजं संसृतिभूमिजस्य तु तमो देहात्मधीरङ्कुरो रागः पल्लवमम्बु कर्म तु वपुः स्कन्धोऽसवः शाखिकाः । मेघे.
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy