SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ आत्मबोध: तीर्त्वा मोहार्णवं हत्वा रागद्वेषादिराक्षसान् । योगी शान्तिसमायुक्त आत्मारामो विराजते ॥ ५० ॥ बाह्यानिमुखासक्तिं हित्वाऽऽत्मसुखनिर्वृतः । घटस्थदीपवच्छश्वदन्तरेव प्रकाशते ॥ ५१ ॥ उपाधिस्थोपि तद्धर्मैरलिप्तो व्योमवन्मुनिः । सर्वविन्मूढवतिष्ठेदसक्तो वायुवच्चरेत् ॥ ५२ ॥ उपाधिविलयाद्विष्णौ निर्विशेषं विशेन्मुनिः । जले जलं वियद्वयोनि तेजस्तेजसि वा यथा ॥ ५३ ॥ यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् । यज्ज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्यवधारयेत् ॥ ५४ ॥ यद्दृष्ट्वा नापरं दृश्यं यदूत्वा न पुनर्भवः । यज्ज्ञात्वा नापरं ज्ञेयं तद्ब्रह्मेवधारयेत् ॥ ५५ ॥ तिर्यगूर्ध्वमधः पर्णं सच्चिदानन्दमद्वयम् । अनन्तं नियमेकं यत्तद्ब्रह्मेसवधारयेत् ॥ ५६ ॥ अतद्वयावृत्तिरूपेण वेदान्तैर्लक्ष्यतेऽव्ययमू । अखण्डानन्दमेकं यत्तद्ब्रह्मेवधारयेत् ॥ ५७ ॥ अखण्डानन्दरूपस्य तस्यानन्दलवाश्रिताः । ब्रह्माद्यास्तारतम्येन भवन्यानन्दिनो लवाः ॥ ५८ ॥ तद्युक्तमखिलं वस्तु व्यवहारश्चिदन्वितः । तस्मात्सर्वगतं ब्रह्म क्षीरे सर्पिरिवाखिले ॥ ५९ ॥ अनण्वस्थूलमहस्व मदीर्घमजमव्ययम् । अरूपगुणत्रर्णाख्यं तद्ब्रह्मेत्यवधारयेत् ॥ ६० ॥
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy