________________
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
सत्त्वचित्वानन्दतादि स्वरूपमिति निश्चितम् । अत एव सजातीयविजातीयादिलक्षणः || भेदो न विद्यते वस्तुन्यद्वितीये परात्मनि । प्रपञ्चस्यापवादेन विजातीयकृता भिदा । नेष्यते तत्प्रकारं ते वक्ष्यामि शृणु सादरम् । अहेर्गुणविवर्तस्य गुणमात्रस्य वस्तुतः ॥
६६०
विवर्तस्यास्य जगतः सन्मत्रत्वेन दर्शनम् । अपवाद इति प्राहुः अद्वैतमदर्शिनः || व्युत्क्रमेण तदुत्पत्तेः द्रष्टव्यं सूक्ष्मबुद्धिभिः । प्रतीतस्यास्य जगतः सन्मात्रत्वं सुयुक्तिभिः ॥ चतुर्विधं स्थूलशरीरजातं तद्भोज्यमन्नादि तदाश्रयादि । ब्रह्मान्डमेतत्सकलं स्थवि ईक्षेत पञ्चीकृतभूतमात्रम् ॥ ६६१ यत्कार्यरूपेण यदीक्ष्यते तत् तन्मात्रमेवात्र विचार्यमाणे । मृत्कार्यभूतं कलशादि सम्यक् विचारितं सन्न मृदो विभिद्यते॥६६२ अन्तर्बहिश्चापि मृदेव दृश्यते मृदो न भिन्नं कलशादि किंचन । ग्रीवादिमद्यत्कलशं तदित्थं न वाच्यमेतच्च मृदेव नान्यत् ॥ ६६३ स्वरूपतस्तत्कलशादिनाम्ना मृदेव मूढैरभिधीयते ततः । नानोहि भेदो न तु वस्तुभेदः प्रदृश्यते तत्र विचार्यमाणे ॥ ६६४ तस्माद्धि कार्य न कदापि भिन्नं स्वकारणादस्ति यतस्ततोऽङ्ग । यद्भौतिकं सर्वमिदं तथैव तद्भूतमात्रं न ततोऽपि भिन्नम् ॥ ६६५ तच्चापि पञ्चीकृतभूतजातं शब्दादिभिः स्वस्वगुणैश्चसार्धम् । वपूंषि सूक्ष्माणि च सर्वमेतत् भवन्सपञ्चीकृतभूतमात्रम् || ६६६ तदप्यपञ्चीकृतभूतजातं रजस्तमस्सत्त्वगुणैश्च सार्धम् ।
अव्यक्तमात्रं भवति स्वरूपतः साभासमव्यक्तमिदं स्वयं च ॥ ६६७
१८२
६५६
६५७
६५८
६५९