________________
१७२
सर्ववेदान्तसिद्धान्तसारसंग्रहः.
मात्रादिलक्षणं किं नु शून्यमेवोपलभ्यते । सुषुप्तौ नान्यदस्येव नाहमप्यासमित्यनु ॥ सुप्तोत्थितजनैस्सर्वैः शून्यमेवानुस्मर्यते । यत्ततश्शून्यमेवात्मा नज्ञानाज्ञानलक्षणः ॥ वेदेनाप्यसदेवेदं अग्र आसीदिति स्फुटम् । निरुच्यते यतस्तस्मात् शून्यस्यैवात्मता मता ॥ अन्नेव घटः पूर्वं जायमानः प्रदृश्यते । न हि कुम्भः पुरैवान्तः स्थित्वोदेति बहिर्मुखः ॥ यत्तस्मादस्तस्सर्वं सदिदं समजायत । ततस्सर्वात्मना शून्यं एवात्मत्वं समर्हति ॥ इत्येवं पण्डितंमन्यैः परस्परविरोधिभिः । तत्तन्मतानुरूपाल्पश्रुतियुक्त्यनुभूतिभिः ॥ निर्णीतमतजातानि खण्डितान्येव पण्डितैः । श्रुतिभिश्चाप्यनुभवैः बाधकैः प्रतिवादिनाम् ॥ यतस्तस्मात्तु पुत्रादेः शून्यान्तस्य विशेषतः । सुसाधितमनात्मत्वं श्रुतियुक्त्यनुभूतिभिः ॥ न हि प्रमाणान्तरवाधितस्य याथार्थ्य मङ्गीक्रियते महद्भिः । पुत्रादिशून्यान्तमनात्मतत्त्वं इत्येव विस्पष्टमतस्सुजातम् ॥ ५५९
५५८
५५१
५५२
५५३
५५४
५५५
५५६
५६७
शिष्य :
सुतिकाले सकले विलीने शून्यं विना नान्यदिहोपलभ्यते । शून्यं त्वनात्मा नततः परः कोऽप्यात्माभिधानस्त्वनुभूयतेऽर्थः॥५६० यद्यस्ति चात्मा किमु नोपलभ्यते सुप्तौ यथा तिष्ठति किं प्रमाणम् । किलक्षणोऽसौ स कथं न बाध्यते प्रवाध्यमानेष्वहमादिषु स्वयम् ॥