SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ : आत्मबोधः आत्मचैतन्यमाश्रिस देहेन्द्रियमनोधियः । स्वकीयार्थेषु वर्तन्ते सूर्यलोकं यथा जनाः ॥२०॥ देहेन्द्रियगुणान् कर्माण्यमले सच्चिदात्मनि । अध्यस्यन्यविवेकेन गगने नीलतादिवत् ॥ २१ ॥ अज्ञानान्मानसोपाधेः कर्तृत्वादीनि चात्मनि । कल्प्यन्तेऽम्बुगते चन्द्रे चलनादि यथाऽम्भसः ॥२२॥ रागेच्छा सुखदुःखादि बुद्धौ सत्यां प्रवर्तते । सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धेस्तु नात्मनः ॥ २३ ॥ प्रकाशोऽर्कस्य तोयस्य समग्र्यथोष्णता । स्वभावस्सच्चिदानन्दनियनिर्मलताऽऽत्मनः ॥ २४ ॥ आत्मनस्साच्चिदशश्च बुद्धेर्वृत्तिरिति द्वयम् । संयोज्य चाविवेकेन जानामीति प्रवर्तते ॥ २५ ॥ आत्मनो विक्रिया नास्ति बुद्धेर्योधो न जात्विति' । जीवस्सर्वमलं ज्ञात्वा कर्ता द्रष्टेति मुह्यति ॥ २६ ॥ रज्जुसर्पवदात्मानं जीवं ज्ञात्वा भयं वहेत् । नाहं जीवः परात्मेति ज्ञातश्चेन्निर्भयो भवेत् ॥ २७ ॥ आत्माsaraयसेको बुद्ध्यादीनीन्द्रियाणि हि । दीपो घटादिवत्स्वात्मा जडैस्तैर्नावभास्यते ॥ २८ ॥ स्वबोधे नान्यबोधेच्छा बाधरूपतयाऽऽत्मनः । न दीपस्यान्यदपिच्छा यथा स्वात्मप्रकाशने ॥ २९ ॥ *केषु चित्कोशेषु श्लोकोऽयं न दृश्यते. ज्ञाता. 'जात्वपि पि.
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy