SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ आत्म बोध : *तपोभिः क्षीणपापानां शान्तानां वीतरागिणाम् । मुमुक्षूणामपेक्ष्योऽयमात्मबोधो विधीयते ॥ १ ॥ बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनम् । पाकस्य वह्निवज्ज्ञानं विना मोक्षो न सिद्ध्यति ॥२॥ अविरोधितया कर्म नाविद्यां विनिवर्तयेत् । विद्याऽविद्यां निहन्येव तेजस्तिमिरसङ्घवत् ॥ ३॥ अवच्छिन्न इवाज्ञानात्तन्नाशे सति केवलः । स्वयं प्रकाशते ह्यात्मा मेघापायेंऽशुमानिव ॥ ४ ॥ अज्ञानकलुषं जीवं ज्ञानाभ्यासाद्विनिर्मलम् । कृत्वा ज्ञानं स्वयं नश्येज्जलं कतकरेणुवत् ॥ १ ॥ संसारस्स्वनतुल्यो हि रागद्वेषादिसङ्कुलः । स्वकाले सत्यवद्भाति प्रबोधे सससद्भवेत् ॥ ६ ॥ तावत्ससं जगद्भाति शुक्तिका रजतं यथा । यावन्न ज्ञायते ब्रह्म सर्वाधिष्ठानमव्ययम् ॥ ७ ॥ * उपादानेऽखिलाधारे जगन्ति परमेश्वरे । सर्गस्थितिलयान् यान्ति बुदुदानीव वारिणि ॥ ८ ॥ *तत्र भगवान् शङ्कराचार्य उत्तमाधिकारिणां वेदान्तप्रस्थानत्रयं निर्माय तदवलोकनासमर्थानां मन्दबुद्धीनां अनुग्रहार्थ सर्व वेदान्तसिद्धान्तसंग्रथनमात्मबोधाख्यं प्रकरणं निदर्शयिषुः प्रतिजानीते तपोभिरिति ॥ इति विश्वेश्वरटीकायाम्.
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy