________________
११२
योगतारावली. त्रिकूटनाम्नि स्तिमितेऽन्तरङ्गे खे स्तम्भिते केवलकुम्भकेन । प्राणानिलो भानुशशाङ्कनाड्यौ विहाय सद्यो विलयं प्रयाति॥११ प्रसाहृतः केवलकुम्भकेन प्रबुद्धकुण्डल्युपभुक्तशेषः । प्राणः प्रतीचीनपथेन मन्दं विलीयते विष्णुपदान्तराळे ॥१२॥ निरङ्कशानां श्वसनोद्गमानां निरोधनैः केवलकुम्भकाख्यैः । उदति सर्वेन्द्रियवृत्तिशून्यो मरुल्लयः कोऽपि महामतीनाम् ॥१३॥ न दृष्टिलक्ष्याणि न चित्तबन्धो न देशकालौ न च वायुरोधः । न धारणाध्यानपरिश्रमो वा समेधमाने सति राजयोगे ॥१४॥ अशेषदृश्योज्झितदृङ्मयानां अवस्थितानामिह राजयोगे । न जागरो नापि सुषुप्तिभावो न जीवितं नो मरणं विचित्रम् ॥१५ अहंममत्वाव्यपहाय सर्व श्रीराजयोगे स्थिरमानसानाम् । न द्रष्टता नापि च दृश्यभावः सा जृम्भते केवलसंविदेव ॥ १६ ॥ नेत्रे ययोन्मेषनिमेषशून्ये वायुर्यया वर्जितरेचपूरः।। मनश्च सङ्कल्पविकल्पशून्यं मनोन्मनी सा मयि सन्निधत्ताम्॥१७॥ चित्तेन्द्रियाणां चिरनिग्रहेण श्वासप्रचारे शमिते यमीन्द्राः । निवातदीपा इव निश्चलाङ्गाः मनोन्मनीमनधियो भवन्ति ॥१८॥ उन्मन्यवस्थाधिगमाय विद्वन् ! उपायमेकं तव निर्दिशामः । पश्यन्नुदासीनतया प्रपञ्चं संकल्पमुन्मूलय सावधानः ॥ १९ ॥ प्रसह्य संकल्पपरम्पराणां संभेदने सन्ततसावधानम् । आलम्बनाशादपचीयमानं शनैः शनैः शान्तिमुपैति चेतः॥२०॥ निश्वासलोपैनिभृतैः शरीरैः नेत्राम्बुजैरर्धनिमीलितैश्च। आविर्भवन्तीममनस्कमुद्रां आलोकयामो मुनिपुङ्गवानाम् ॥ २१ । अमी यमीन्द्राः सहजामनस्कात् अहंममत्वे शिथिलायमाने । मनोतिगं मारुतवृत्तिशून्यं गच्छन्ति भावं गगनावशेषम् ॥ २२॥