SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४२२ एकोनविंशत्यधिकशततमोऽध्यायः अगस्त्य उवाच । सर्वदेवेश्वरो देवो ब्रह्मा विष्णुतनुरुहैः । यथावत् क्रियते' वत्स तथा ते कथयाभ्यहम् ॥१२॥ व्रतोत्तमं महापुण्यं यत्र ज्ञातं सुरैरपि । सम्भवन्तु कपालस्य खट्वांगस्य च सुव्रत ॥१३॥ ईश्वर उवाच । थानादि परो देवस्तथाहं वरवर्णिनि । संसारोऽपि तदवस्थः परमार्थेन वेदितुम् ॥१४॥ तस्य देवातिदेवस्य कारणस्यामितद्य तेः । इच्छाधिकारणञ्चाहं इच्छा त्वं तस्य भाविनि ॥ १५ ॥ माया च जगतः स्रष्टा त्वं च सृष्टिर्वरानने । क्रियाख्या पच्यते येन तेन सृजसि वाङ्मयम् ॥१६॥ मूलप्रकृतिरूपेण सृष्टिस्त्वं पद्मजन्मनः । सोऽपि शतांशभागेन निमेषस्य मम प्रिये ॥१७॥ स्थित्वा विनाशमायाति पुनस्तत्रव गीयते । कपालं तस्य चादाय क्रीडामि विपुलेऽध्वनि ॥ १८ ॥ एवं कपाल कोटिभिर्माला येयं विभाति मे । तस्य गात्रं व संख्यायैर्वृत्तान्त वरवनि ॥१६॥ यदा मायोदरं सर्व कालेन प्रलयं गतम् । तदाहमीश्वरे तत्त्वे भवामि रमितः सुखी ॥२०॥ ब्रह्मणोऽनन्त कपालैस्तु धृत्वा मालां सुभैरवाम् । अनन्तं भैरवं रूपं कालं द्वादशलोचनम् ॥२१॥ प्रतिघोरं समाश्रित्य वियत्यस्मिन् रमाम्यहम् । एकाकी मातृभिर्युक्तः स्ववीर्यबलशालिभिः ॥ २२ ॥ परार्धद्वय कालान्ते व्यतिक्रान्ते महेश्वरि । क्रीडयित्वा समस्ताभिः शक्तिभिर्घोररूपिभिः ॥ २३ ॥ भावभूतमयं विश्वं सत्तत्त्वं गहनात्मकम् । कृत्वोदरगतं सर्वमन्न ग्राममनन्तकम् ॥२४॥ विनिकृत्य समारुद्धां योगनिद्राश्रितः सुखी । शयामि शक्तिपर्यन्के वीरमाते ततो ह्यहम् ॥ २५ ॥ पुननैत्रोदये दिव्ये विनष्ट परमां चये । स्वशक्तिसंप्रबुद्धस्य वृताश्चित्रा प्रजायते ॥२६॥ भावस्तत्त्वैस्तथाभूतैर्मालयं भुवनात्मकी | मायाद्यावनिपर्यन्तं युगपद् योगजं महत् ॥२७॥ १. यथा क्रीडयते वत्स ग । ३. मया च जगत-स्रष्टा ख । जगतस्यान्य ग । ५. मायोदन ग ६. मातृभिर्मुक्तः सुवीर्यं ग । २. परमात्मेन चोदिनम् ग । ४. नीयते ग । ७. विनिशम्य तामनित्वम् ग
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy