SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ सप्ताशीतितमोऽध्यायः । भगवानुवाच । एतस्मिन्नन्तरे शक चन्द्रकोटिसमप्रभाः । सदाशिव समुद्भ ताः शांतरूपा मनोहराः ॥१॥ रोदसी चतुरोद्भाष्य' वीणाहस्ताः समागताः । शम्भुना सहिताः शक्र नानाभाव समन्विताः ॥२॥ सरोजाये विचित्रश्च बत्तिनीभिः सुवत्तितैः । फलतोक्षे पवित्राक्षश्चलत्तारैः3 रसान्वितैः ॥३॥ नानाविहारललितेश्चतुरस्र : सरक्षगैः । उत्फुल्लाद्य ते भेद स्त्रिरून्नतरसान्वितैः ॥४॥ अवध्वि वलितापाठ वेपाद्धन नमागतः । बाहुभिर्वातप्रक्षिप्ताः प्रयान्ति शिविकादिशाम् ॥५॥ दृष्ट्वा समाथमाकाराः कराम्भोज विनिर्मिताः । पूरयन्तमम्बरं शक्र चारुचारी नताननाः ॥६॥ उत्क्षेपं दण्डपादाब्जर्भानोः सान्द्र नभस्तले । निरुद्धं स्पन्दनं साश्वं विपरीतगतिस्थितम् ॥७॥ कर्णस्थान सूचिभिर्नागाः नागाः पदतलेस्थिताः । गुरुः पीडन्ति फलिनो वमन्ति गरलमसृक ।८॥ समानं भोगभावञ्च भिषजानां विवणितम् । नागराज कुलान्यष्टौ स्वस्थानानि विहाय तु ॥६॥ विद् तानि युतस्तानि भीतानि तरलानि तु । इतश्चैतश्च गच्छन्ति मूर्छाकुलितमानसाः ॥१०॥ शेषो गुरुभराक्रान्तो याति मोहं मुहुर्मुहुः । तथा मेधानि ऋक्षाणि ग्रहाणि विविधानि च । ११॥ स्थानच्युतानि सर्वाणि तान् दृष्ट्वा हर्षितानि च । नभःस्थितानि मुञ्चन्ति नग्मालानि नित्यशः ॥१२॥ १. च भुवोद्माष्यं ग। ३. चलत्तालैः ख । २. भ्र लताविक्षेप विभ्रान्तः क । ४. रोगाद्वमन ख । ६. चरणं ख , ककज । ५. लतालता ख। ७. विषजालम् ख।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy