SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ सप्तसप्ततितमोऽध्यायः । ब्रह्मोवाच । ૨ सर्वे शिवाश्रमाः पुण्या सर्व्वपापप्रणाशनाः । सर्वस्नानोपवासादि फलदा भवते नृणाम् ॥१॥ नाराध्य नृपं यद्वत् भूतिः पुष्टिनं लभ्यते । श्रसंपूज्य शिवं विप्र तद्वत् पुण्यं न प्राप्यते ॥ २ ॥ विशेषेण कलौ घोरे कृष्णरूपे तमोवृते । किं द्विजाः शिवपोतन्तु तेन पारं भवार्णवात् ॥३॥ गच्छन्ति स्नापकाः पुण्या लड्डूकादि' प्रदानतः । यस्तु लिगाकृति कृत्वा गृहे वा भावनायुतः ४ ॥४॥ लड्डूकादि प्रदानं तु करोति सततं द्विजः । स गच्छति शिवं लोकमनौपम्यं मनोरमम् ॥५॥ सदा विभव संपन्नः सर्वद्वन्द्व विर्वाजितः । तत्रस्थः सुखसम्पन्नः क्रीडते विविधैः सुरवैः ॥६॥ देवीरूपो हरो वत्स विष्णुर्देवा वयं तथा । सर्वरूपी महाभागा सूर्यस्य रिपुनाशिनी ॥७॥ नागराजरूपिणी देवी- गोरूपा चचिकाम्बिका । मातरा भावगा वत्स नारायणी तथा मता ॥ ८ ॥ महाश्वेता महादेवी रिपुहा सूर्यसन्निधौ । सर्वगा सर्वदेवानां वरदा सर्वतो जिता ॥ ॥ त्रिमूर्ति स्त्रिगुणा देवी त्रिवेदा त्रिपदा धृतिः । त्रिकला त्रिशुभा शक्ति त्रिशूला शूलरूपिणी ॥१०॥ व्यक्ताव्यक्ताकृति कृत्वा हेमरूप्य मयी शुभाम् । त्रिशूले पूजयेद्वत्स स्नात्वा कापोतवारिणा ॥११॥ चन्दनागुरू गन्धाढ्यां त्रजधूप सुधूपिताम् । सकृद्दृष्ट्वा "शुभं हन्यात् सप्त जन्म कृतं मुने ॥१२॥ पूर्वोक्ता ये महातीर्था तेषामेकतमोऽपि वा । माया' 'पुर्याञ्च वा काश्यां जम्बुमार्गेऽथ नैमिषे ॥१३॥ निवसन् पूजयेद्देवीं सर्वकामानवाप्नुयात् । द्विजो मुंडी शिखी वापि यत्र तत्र व्यवस्थितः ॥ १४ ॥ १. पुंभिः न प्राप्यते ग । ४. भावनारतः ख । ७. नाग वा ग । नागर डू ख । ६. शिवाम् ख । २. पंक्तिरियं क पुस्तके नास्ति । ५. गंडुकादिक । ८. माहेश्वरी क ख । १०. पुष्या क । ३. गंडुकादि ग ६. देवीभयं क ग । ११. मया क ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy