SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ निस्सङ्ग इति- स्वरसशमितमारसदागतिः स्वरसेन आत्मबलेन स्वानुभवरूपजलेन शमितो विध्यापितो मारः काम एव सदागतिरग्नि. सदागतिरिव समीरण इव निस्सङ्गो निष्परिग्रहः सदागतिः साधुः कन्दरेषु गह्वरेषु विचरति विहरति ततस्तस्मात्कारणात् सदागतिः निर्वाणोऽस्य भवति। 'सदागतिर्गन्धवाहे निर्वाणेऽपि सदीश्वरे' इति विश्वलोचनः ।। ३८।। अर्थ- जिसने स्वरस-आत्मबल अथवा स्वानुभवरूप जल से कामरूपी अग्नि को शान्त कर दिया है ऐसा वायु के समान निःसङ्ग साधु वन की गुफाओं में विचरण करता है इस कारण उसे सदागति-निर्वाण प्राप्त होता है ||३८।। [३९] सरस्तत् पुष्करेण यतितिमिर्भातु ध्यानपुष्करेण । . मृदुता च पुष्करे न नरेऽविरते गीः पुष्करे न ।। तत् सरः पुष्करेण भातु, यतितिमिः ध्यानपुष्पकरेण (भातु) पुष्करे च मृदुता (भातु) अविरते नरे न (भातु) पुष्करे गीः न (भातु)। सर इति- तत् प्रसिद्धं सरः कासारः पुष्करेण पोन भातु शोभताम्। यतितिमिः यतिरेव तिमिर्मीन इति मीनः । ध्यानपुष्करेण ध्यानमेव पुष्करं जलं तेन भातु। पुष्करे कमले मृदुता कोमलता भातु। अविरतेऽ संयते जने मृदुता न भातु। गीः शब्दश्च पुष्करे विहायसि न भात्विति सम्बन्धः। 'पुष्करं व्योम्नि पानीये हस्तिहस्ताग्रपद्मयोः' इति विश्वलोचनः ।।३९।। अर्थ- वह सरोवर पुष्कर-कमल से सुशोभित हो और मुनिरूप मीन ध्यानरूपी पुष्कर-जल से सुशोभित हो। कोमलता पुष्कर-कमल में सुशोभित हो असंयमी मनुष्य में नहीं और शब्द पुष्कर आकाश में नहीं ।।३९।। [४०] संसारमूलमेन आर्तरौद्रद्वयं रोचते मे न । हेममयः कथमेण ईप्सितस्तेन रामेण ?।। संसारमूलम् आरौिद्रद्वयं एनः मे न रोचते। हेममयः एणः तेन रामेण कथम् ईप्सितः ? संसार इति- संसारमूलं संसारस्य मूलं कारणं, आर्तरौद्रद्वयं आतं च रौद्रं चेत्यातरौद्रे तयोर्द्वयं आर्त्तरौद्राख्यकुध्यानयुगलम्। एनः पापरूपम्, तत् मे मुनये न रोचते रुचिकरं नास्ति। हेममयः सुवर्णमय एणो मृगस्तेन विवेकवता पुराणप्रसिद्धेन च रामेण कथं केन कारणेन ईप्सितोऽभिलषितः। सौवर्णमृगलोभेन यथा रामो दारापहरणादिकं दुःखं (२०)
SR No.002457
Book TitlePanchshati
Original Sutra AuthorN/A
AuthorVidyasagar, Pannalal Sahityacharya
PublisherGyanganga
Publication Year1991
Total Pages370
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy