SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ १ प्रवज्यावस्तु तु अन्यानपीत्यर्थः ॥ (५४३) संजानीत। गमिकः संघस्थविरः। संघचर्या-ईउपदेश- उद्देशादि-भक्तलाम-ग्लानसंविधानादि-करणीय-संपादनेन अनु-[ग]"ह्लीत ॥ चर्या-गोचरः। ईर्यापथ-ईर्या। तयोरुपदेशः, अयं गोचरः अयमगोचरः एवं गन्तव्यमित्यादि। उद्देशादि इत्यत्र स्वाध्यायनिकादीनां आदिशब्देन ग्रहणम् ॥ (५४४) वर्षापगतो अनुसंज्ञाय विहारं प्रप्रतिसंस्कुर्वतः संस्कारयेत्, संस्कुर्वतो अभ्युत्साहयेत् ॥ (५४५) पर्षद्गतान् सर्वः कथैषिता यां अनुलोमिकधर्मोपसंहारेणानुगृहीत ॥ स चेत् पर्षद्गताः कथां एषन्ते ततो यो यस्यानुकूलो धर्मोपसंहारः तेन अनुगृह्णीत । सर्वः इति संघस्थविरः, न च वर्षोपगतसंघस्थविर एव ।। (५४६) तूष्णीत्वे र[तान् उपेक्षेत ।। तूष्णींभावः तूष्णीत्वम् । आर्यः अत्र तूष्णींभावोऽभिप्रेतः, न मौनमात्रम् ॥ (५४७) गृहिणः उपगतान् भक्तान् संविभाजयेत् ॥ युक्तमेषां भक्तं. दातुमिति । भिक्षून बोधयित्वा यदि ते भिक्षवः संघस्थविरेण उक्ताः संविभागं न कुर्वन्ति, ते वा गृहिणो भोक्तुं नेच्छन्ति ततः-॥ (५४८) प्रकरणे अनिष्टौ वा धमतां कथां कृत्वा इदमस्माकं संविद्यते इति बयात् ॥ (५४९) पर्षदं तद्वान् सर्वः प्रत्यवेक्षेत || सर्वः पर्षद्वान्, न संघस्थविरः एव इत्यर्थः ॥ (५५०) मुधाचारिणं [Plate III. 8a]' निगृह्णीयात् ॥ सर्वः पर्षद्वान् इत्यनुषङ्गः। यथा न वृथा कालमतिनामयति, न निरर्थिकां प्रव्रज्यां करोति तथा कर्तव्यमित्यर्थः । (५५१) गमनादि अत्र यथा एतत्कुर्यात् ॥ एवं गन्तव्यं, एवं स्थातव्यं इत्यादि संनिवेशापेक्षः 'आदि'-शब्दः । 'अत्र' इति पर्षदि । 'यथा एतद्' इति यथा पर्षद्, पर्षदनुरूपं इत्यर्थः ।। (५५२) अ-नानातिर्यक-कथ: स्यात् ।। अत्र इति वर्तते । धर्मविनयादपक्रान्ताऽपाइँन अस्य वर्तिनी, तिर्यक् कथा, नानाकथाविप्रकीर्णाः ॥ (५५३-५५४) न पुरः पश्चाच्छमणो गच्छेत् ॥ न तिष्ठेदिति ॥ पुरतः पश्चात् (वा)37 श्रमणो न तिष्ठेदित्यर्थ ॥ (५५५) उक्तो बयादिति ।। नानुक्तेन किंचिद्वक्तव्यम् । (५५६)संपादयेद्वति ॥ यदस्य उच्यते पुरःश्रमणेन तत्संपादयेत् इत्यर्थः । (५५७) न अन्तराकथा अवपातयेत् इति ॥ पुरःश्रमणे कथां कुर्वाणे, न अन्तरा-कथां कुर्यादित्यर्थः ॥ (५५८) अधर्म भाषमाणं । (इति) पुरःश्रमणं । प्रतिवदेत् ॥ (५५९-५६०) धर्म अनुमोदेत ॥ संपन्नधार्मिकं लाभं प्रतिगृह्णीत ॥ इति पश्चाच्छमणः ॥एतत्पश्चात्-श्रमणवृत्तम् ।। (c) कुलोपसंकामी भिक्षुगतम्। कुलोपसंक्रमिणो वृत्तमुच्यते ॥ (५६१) अनुन्नडः । इति सर्वः । कुले स्यात् अनुन्नडः अनवस्थितः ।। गृहादपक्रमितुकामता, अनवस्थितत्वम् ।। (५६२) अवक्षिप्तचक्षुरिति ।। विषयेभ्यः प्रतिसंवृतचक्षुरित्यर्थः ॥(५६३)धा गृहिभ्यः कथां कुर्यात् ।।
SR No.002451
Book TitleVinay Sutra And Auto Comentary On Same
Original Sutra AuthorN/A
AuthorP V Bapat, V V Gokhale
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages134
LanguageSanskrit, Hindi, English
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy