SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ [२८] [ अनुष्टुप् ] रान्तं तयुग्मितं सूत्र-मस्वरमवगम्यताम् । नान्ततन्त्रात्मकं तद्वै, नास्त्यत्र तत्र वर्तते ॥९४।। ___(पञ्जिका ) तद्वविलसितं रेफान्तिमं स्वराकारेण कलितं सूत्रमवबुध्यताम् , तद्धि सूत्रमास्ते तन्त्ररूपं परं नान्तम् , अत्र नास्ति तत्र चास्ते, एतावता सूत्रगवेषणायासोऽपाकृत एवं ॥९॥ . [ वसन्ततिलका ] कस्मादृते पशुकुले . शशकाः प्रमिद्धा, वैशिष्टयमादधति भूमिधराश्च कस्मात् । .. कस्माद्धरेरजनि चापमतुल्यरूपं, . सूत्रादवैतु वचनं प्रतिपूर्वकं सत् ।।९५॥ . ... (पञ्जिका.) .. . (१) शशकाः पशुसमुदाये कस्माद्विरहिता विख्याता. वर्तन्ते । (२) पर्वताः कुतो विशिष्टतां धारयन्ति ? (३) श्रीकृष्णस्यानुपमं धनुः कस्मात् प्रादुरभवन ? । एतत् त्रितयप्रश्नोत्तरत्रिकमेकस्मादेव सूत्राज्जानातु । किं तत् सूत्रमुन्नीयतामिति ॥१५॥ [अनुष्टुप् ] कुत्र सूत्रे भवेद् वादो, वाक्य मन्त्रणं भवेत् । .., ईहितं त्वरितं ब्रूयाः, शीलितं यदि तद्धितम् ॥९६॥ - (पञ्जिका ) , तादृशमेकं सूत्रं व्याकरणतः प्रकटीकार्य यत्र सूत्रे वाकारे आदि. भागे कृते-निहिते सति वागवीरार्थवाचकशब्दस्य सम्बोधनं स्यात् ।
SR No.002446
Book TitleLakshan Vilas
Original Sutra AuthorN/A
AuthorDhurandharvijay Gani
PublisherJain Sahityavardhak Sabha
Publication Year1916
Total Pages82
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy