SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ 486 श्रावकभूमौ नष्क्रम्यभूमिः यानि पुनरेतानि विपरिणामकारणानि तान्यन्यथोत्पत्तये सत्य(म्व) [5]र्तन्ते विकृताया उत्पत्तेः कारणीभवन्ति। न तु विनाशस्य [1] तत्कस्य हेतोः [1] सहैव तेन विनाशकारणेन विनष्टानां संस्काराणां यस्माद्विसदृशा (शी) प्रवृत्तिरुपलभ्यते । न तु सर्वेण सर्वमप्रवृत्तिरेव [1] येषाम्वा पुनः संस्काराणां सर्वेण सर्वमप्रवृत्तिरुपलभ्यते । तद्यथा क्वाथ्यमानामसामन्ते सर्वेण सर्वम्परिक्षयो भवति[6]अग्निनिर्दग्धानां च लोकभाजनानां मसिरपि न[प्र']ज्ञायते । छायिका च। शिष्टमपि न प्रज्ञायते तेषामप्युत्तरोत्तरकरणपर्यादानादन्ते सर्वेण सर्वमभावो भवति । न त्वग्निनैव क्रियते [1] तस्माद्विपरिणामकारणान्येतान्यष्टौ यथोक्तानि स्वरसेनैव तु विनाशो भवति । स ए[7]वमानुमानिकमनस्कारेण संस्कारेणाक्षणोत्पन्नभग्नविलीनतायां निश्चयं प्रतिलभ्य पुनरप्यप्रत्यक्षपरलोकासंस्कारप्रवृत्तावनुमानं करोति ।। एवं च पुनरनुमानं करोति। सन्ति सत्वा (त्वा) [8]ये अवर्णा अपि, दुर्वर्णा अप्युपलभ्यन्ते, उच्च कुलीना अपि, आद्यकुलीना अपि, दरिद्रकुलीना अपि, 14B-4|| अल्पेशाख्या अपि, दीर्घायुषो (ष)आदे//[1]यवाक्या अपि, अनादेयवाक्या अपि, तीक्ष्णेन्द्रिया अपि [1] 1. A separate hand adds this.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy