SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ तृतीयं योगस्थानम् 363 मनुवर्त्तयति । उपनिबध्नाति । तत्र कतमत्सभागालम्बनं । यत्किचित्समाहितभूमिकमालम्बनमनेकविधं । बहुनानाप्रकारं । येनालम्बने चित्तं परं समाहितमिदमुच्यते । सभागमालम्बनं [1] कस्यैतत् । सभागं [1] आह । क्षयस्य वस्तुनः प्रतिरूपकमेतत्तस्मात्सभागमि[8]त्युच्यते। या पुनरभिक्षयाकारा निछिद्रा (निश्छिद्रा) निरन्तरा स्मृतिः प्रवर्तते । तेनालम्बनेन सततं च सत्कृत्य चेयं प्रवाहयुक्तता। यत्पुनस्तस्मिन्नेवालम्बने अभिरतस्यासंक्लिष्टविहारिता। वाहिमार्गता स्मृतिरियमवद्यरतियुक्तता । तेनाह पुन: पुनरपरानुस्मृतिसभागालम्बनप्रव[]हान11A-5|| वद्यरतियुक्ता चि//[1]त्त सन्ततिः । समाधिरिति सा खल्वेषा एकाग्रता शमथपक्ष्या विपश्यनापक्ष्या च । तत्र या. नवाकारायां चित्तसंतथौ (स्थितौ) वा [सा] शमथपक्ष्या, या पुनश्चतुर्विधे प्रज्ञाधारे सा विपश्यनापक्ष्या। . तत्र नवाकारा चित्तस्थितिः कतमा । इह भिक्षुरध्यात्ममेव चित्तं स्थापयति । संस्थापयति । अवस्थापयत्युपस्थापय[2]ति । दमयति । शमयति । 1. सभाग has been defined as : 'इन्द्रियविषयविज्ञानानामन्योन्यभजनं भागः । स एषामस्तीति सभागः । स्पर्शसमानकायत्वाद्वा ।' 'यो हि विषयो यस्य विज्ञानस्य नियतो यदि तत्र तद्विज्ञानमुत्पन्नं भवत्युत्पत्तिमि वा एवं स विषयः सभाग इत्युच्यते।' AKB, I.39; cp. यः स्वक्रियां भजते स सभाग इति । • • • •Adv., p. 29.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy