SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ द्वितीयं योगस्थानम् . 191 वेदितव्यं । तद्यथा। चतुर्णा प्रतिपन्नकानां स्रोत आपत्तिफलप्रतिपन्नकस्य सकृदागामिफलप्रतिपन्नकस्य 8B-3// // [1]अनागामिफलप्रतिपन्नकस्य, अर्हत्त (अर्हत्त्व) फलप्रतिपन्नकस्य, चतुर्णां फलस्थानां स्रोत आपन्नस्य, सकृदागामिनः । अनागामिनोहतश्च ये प्रतिपन्नकमार्गा वर्तन्ते । ते प्रतिपन्नकास्तेषां - प्रतिपन्नकमार्गेण व्यवस्थानं । येहंत्फलश्रामण्यफलव्यवस्थितास्तेषां [मार्गफ']लव्यवस्थानमेवं मार्गफलप्रभेदेन पुद्गलव्य. वस्थानं भवति ॥ कथं [2] प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा श्रद्धानुसारिधर्मानुसारिणा [1] यः पुद्गलः श्रद्धानुसारेण प्रयुक्तः । स श्रद्धानुसारी, यो धर्मेषु परप्रत्ययविनयानुसारेण प्रयुक्तः स धर्मानुसारी । एवं प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति ।। ____ तत्र कथं समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति। तद्यथा कायसाक्षिणः (साक्षी) अष्टौ वि[3]मोक्षान् कायेन साक्षात्कृत्योपसम्पद्य विहरति । न च सर्वेण सर्वमास्रवक्षयमनुप्राप्तो भवति । रूपी रूपाणि पश्यति । अध्यात्ममरूपसंज्ञां बहिर्धा रूपाणि पश्यति । शुभविमोक्षं कायेन साक्षात्कृत्योपसम्पद्य विहरति । आकाशानन्त्यायतनं, विज्ञानानन्त्यायतनं, आकिञ्चन्यायतनं, नैव संज्ञा नासंज्ञायतनं, संज्ञावेदयि1. Letters damaged by pin-hold.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy