SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ शब्दाप्रामाण्यचिन्ता ४३७ सर्वान् शास्त्रदृष्टानर्थान् साध्यत्वेन समीकृत्य किञ्चित् साधनं वक्तुमशक्यं दृष्टान्ते शास्त्रदृष्टाखिलधर्मव्याप्त्यनुपलम्भात्। तेन कारणेन सर्वत्र धर्मिणि साध्यसाधनयोः संस्थितिर्व्यवस्थेयं सुच्छन्ना स्यात् ॥ (६४) (शब्दस्य नाकाशगुणत्वम्) ___ यदि ताकाशगुणत्वाभावेप्यनित्यत्वं सिध्यदबाध्यं शब्दे तदा श्रावणत्वादिहेतुना नित्यत्वमपि साध्यमानमबाध्यं स्यादित्याह। विरुद्धयोरेकधर्मिण्ययोगादस्तु बाधनम् । विरुद्धैकान्तिके नात्र तद्वदस्ति विरोधिता ॥६५॥ विरुद्धयोन्नित्यत्वानित्यत्वयो रेकत्र शब्दे धमिण्ययोगाद् विरुद्धैकान्तिके विरुद्धाव्यभिचारिणि श्रावणत्वादौ नित्यत्वसाधके बाधनमस्तु। न कत्र धर्मिणि विरुद्धौ धर्मों भवितुमर्हतः। तद्वन्नित्यत्वयोरिवात्रानयोः प्रकृताप्रकृतयोरनित्यत्वाकाशगुणत्वाभावयोविरोधिता नास्ति। ततः कृतकत्वाच्छन्देऽनित्यत्वसिद्धावाकाशगुणत्वाभावो न बाध्यते ॥ (६५) स्यादेतत्। प्रकृताप्रकृतयोरनित्यत्वाकाशगुणत्वाभावयो : परस्परं (1) . अबाध्यबाधकत्वेपि तयोः शास्त्रार्थविलवात् । असम्बन्धेपि बाधा चेत् स्यात् सर्व सर्वबाधनम् ॥६६॥ बाध्यबाधकत्वाभावेप्येकस्मिन्ननित्यत्वे कृतकत्वात् सिध्यति शब्दे धर्मिणि शास्त्रार्थस्य शास्त्राभ्युपगतस्याकाशगुणत्वस्य विप्लवात् कारणाद् असम्बद्धे (1) अप्रकृताकाशगुणत्वसम्बन्धरहितेऽनित्यत्वेपि बाधा भवतीति चेत् । एवन्तर्हि प्रयत्नानन्तरीयकत्वाद् गन्धे पृथिवीगुणत्वबाधने सव्वं कृतकत्वादि सर्व स्यानित्यत्वादेः साध्यस्य बाधनं ' स्यात्। शब्दादौ धर्मिण्यप्रकृतशास्त्रार्थबाधनस्य तुल्यत्वात् ॥ (६६) । सम्बन्धस्तेन तस्यैव बाधनादस्ति चेदसत् । हेतोः सवस्य चिन्त्यत्वात् स्वसाध्ये गुणदोषयोः ॥६॥ अथ तत्र शब्द एव धर्मिणि आकाशगुणत्वस्य सत्त्वात् सम्बन्धोस्ति तेन कृतकत्वात् तस्यैव बाधनाद् विरोधः। पृथिवीगुणत्वन्तु शब्दे धर्मिण्यसम्बद्धं । ततस्तद्वाधनेपि शब्दे कृतकत्वमविरुद्धमिति चेत् । असदेतत्। सर्वस्य हेतोः स्वसाध्ये प्रकृते गुणदोषयोश्चिन्त्यत्वात् । यत्पुनरप्रकृतं धर्मिसम्बद्धमपि * न तत् साध्यं तद्वाधनेपि न काचित् क्षतिः ॥ (६७)
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy