SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ आगमचिन्त ३६७ साऽविद्या सत्कायदर्शनमेवाविद्याऽन्यत्रोच्यत इति नास्ति विरोधः । तत्र सत्कायदर्शने सति तेष्वात्मीयेषु स्नेहस्तस्मादात्मीयेषु स्नेहात् तदपकारिषु द्वेषादीनां सम्भव इति दोषोत्पत्तिक्रमः । अतो नैरात्म्यदर्शनं मार्गो युक्तः सत्कायदृष्टिप्रतिपक्षत्वात् । यतश्च सत्त्वदृष्टिरविद्या । मोहो निदानं दोषाणां अत एवाभिधीयते । सत्कायदृष्टिरन्यत्र ; अत एव मोहोऽविद्या दोषाणां निदानमभिधीयते । भगवता " ऽविद्या हेतुकाः सर्वे क्लेशा" इति पुनरन्यत्र प्रदेशे "सत्कायदृष्टिर्दोषनिदानम” भिधीयते । योनिशोमनस्कारादयो नन्वन्येपीन्द्रियविषया दोषहेतवस्तत्किमविद्या सत्कायदृष्टी एवाभिहिते इत्याह । तत्प्रहाणे प्रद्दाणतः ॥२२३॥ तस्य मोहस्य सत्कायवृष्टि 'लक्षणस्य प्रहाणे दोषाणां प्रहाणतः प्राधान्यात् स एवोक्तो नेतर इत्यर्थः ॥ ( २२३ ) ५. अपौरुषेयत्वे (१) वेदप्रामाण्यनिरासः वेदप्रमाण्यं निराचिकीर्षन् परमतमुत्थापयति । गिराम्मिध्यात्वहेतूनां दोषाणां पुरुषाश्रयात् । अपौरुषेयं सत्यार्थमिति केचित् प्रचक्षते ॥ २२४॥ गिरां वाचां मिथ्यात्व' स्य हेतूनां दोषाणामज्ञानविसम्बादाभिप्रायादीनां वा पुरुषस्याश्रयादाश्रयणत्वात् अपौरुषेयं वाक्यं मिथ्यात्वहेतोः पुरुषदोषस्याभावात् सत्यार्थमिति केचित् जैमिनी याः प्रचक्षते ॥ (२२४) १ मृष (1) र्थत्वस्य ये हेतवो दोषा रागादयस्तेषां वाचश्च पुरुष अभयस्तैः पुरुषस्य परिगृहीतत्वादप्रमाणत्वं (1) द्विधा शब्दार्थो निसर्गसिद्धो वेदादौ औपाधिकः पुरुषाधीनोन्यत्र । न मिध्यात्वं वेवे पुरुषनिवृत्तेः । न संशयोऽप्रतिभासात् । नाशानं बेदादर्थगतेः (1) पुरुषकारणाभावान्मिथ्यात्वकार्याभावसिद्धिः ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy