SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ प्र० वा० वृत्तौ (२ परिच्छेदः) अनुमानञ्च जात्यादौ वस्तुनो नास्ति भेदिनि । अनुमानं वस्तुनः शाबलेयादेर्भेविनि जात्यादौ नास्ति । न हि व्यक्तिव्यतिरिक्तं विशेषणमुपलभ्यते शृङ्गाद्यवयवसन्निवेश एव त्वभिन्नो विशेषणमस्तु । तथा च नाभिमतसिद्धिः । १६४ दृष्टान्तासिद्धिमप्याह (1) सर्व्वत्र व्यपदेशो हि दण्डादेरपि सांवृतात् ॥१५४॥ ', सर्व्वत्र पुरुषादौ दण्डीत्यादिव्यपदेशोपि हि न दण्डावेर्व्वस्तुनः किन्तु सांवृतात् '। दण्डस्वलक्षणस्य व्यपदेशे हेतुत्वे सर्व्वत्र पुरुषे स्यात् । सम्बन्धिन्येवान्यत्रेति चेत् । तर्हि सम्बन्धो दण्डः कारणं दण्डि व्यपदेशस्य सम्बन्धश्च संयोगादिर्नास्तीति परं कार्यकारणभावः परिशिष्यते । तस्य निमित्तत्वे यथा दण्डी पुरुषस्तथा पुरुषी दण्ड इत्यपि स्यात् । समानत्वान्निमित्तस्य ( 1 ) तस्मात् कल्पितविशेषणभावनियमो दण्ड: सम्बन्धी सांवृत एव विशेषणं । ( १५४) किञ्च (1) वस्तुप्रासादमालादिशब्दाश्चान्यानपेक्षिणः । १ गेहो यद्यपि संयोगस्तन्माला किन्तु तद्भवेत् ॥ १५५ ॥ 32a षट्सु पदार्थेषु वस्तु वस्त्विति सर्व्वानुयायी शब्द: प्रासादेषु प्रासादमालेति शब्दो गृहेभ्षु बहुषु नगरमित्याविशब्दाश्चान्यानपेक्षिणोऽर्थान्तरभूतविशेषणरहिता इति व्यभिचारिता हेतोः । न हि पदार्थेषु व्यतिरिक्तं सामान्यं वस्तुतात्व' मभ्युपगम्यते वैशेषिकैः । न च प्रासादो द्रव्यं विजातीयानां द्रव्यानारम्भात् । ततश्च मालागु णोप हो यद्यपि संयोगस्तस्य माला किन्तु तद् भवेत् । न भावगुणो निर्गुणत्वात् गुणानां । (१५५) ' दण्डदण्डिनोः परस्परोपकार्योपकारकभावोपकल्पितादवस्थाविशेषादर्थान्तर - भूतात् । २ आदिना । 8 * अनैकान्तिकता । न द्रव्यं । 'वस्तुवस्त्विति । " अर्थान्तरसंयोगाभावादभ्युपगम्योच्यते । • बस्त्वनन्तर्भा (वा) न किञ्चित् ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy