SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ - स्वोपज्ञलघुवृत्तिः। अस्मादिग्देशार्थात्सिङयन्तादा वा स्यात् । दक्षिणा । दक्षिणतः। दक्षिणाद्रम्यं वासो वा ॥ ११९ ॥ आही दूरे । ७।२।१२०॥ दूरदिग्देशार्थात्सिड्यन्ताद्दक्षिणादा आहिश्च स्यात् ।ग्रामादक्षिणा। दक्षिणाहि रम्यं वासो वा ॥ १२० ॥ वोत्तरात् । ७।२।१२१ । दिगाद्यर्थादस्मात्सिङयन्तादा आहिश्च वा स्यात् । उत्तरा। उत्तराहि । उत्तरतः । उत्तरात् रम्यं वासो वा ॥ १२१ ॥ अदूरे एनः। ७।२।१२२। दिगशब्दाददूरदिगाधात्सिड्यन्तादेनः स्यात् । पूर्वेणास्य रम्यं वसति वा ॥ १२२ ॥ लुबञ्चेः। ७।२।१२३। अञ्चत्यन्ताहिकशब्दादिगादिवृत्तेः सिङसिझ्यन्तादिहितो यो धा ऐनो वा तस्य लुप् स्यात् । प्रागम्यमागतो वासो वा ॥ १२३ ॥ पश्चोऽपरस्य दिक्पूर्वस्य चाति।७।२।१२४॥ अपरस्य केवलस्य दिगर्थपूर्वपदस्य चाति परे पश्चः स्यात् । पश्चात्। दक्षिणपश्चात् रम्यमागतो वासो वा ॥ १२४ ॥ वोत्तरपदेऽर्द्ध । ७।२।१२५ । अपरस्य केवलस्य दिक्पूर्वस्य च अर्दै उत्तरपदे पश्चो वा स्यात् । पश्चाईम् । अपरार्द्धम् । दक्षिणपश्चार्द्धः । दक्षिणापरार्द्धः ॥ १२५ ॥ कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे विः । ७।२।१२६।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy