SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। ४८५ पूरणप्रत्ययान्तादयसि गम्ये मत्वर्थे इन्नेव स्यात् । पञ्चमीबालः ॥ सुखादेः । ७।२।६३। एभ्यो मत्वर्थे इन्नेव स्यात् । सुखी । दुःखी ॥ ६३ ॥ मालायाः क्षेपे । ७।२।६४। मत्वर्थे इन्नेव स्यात् । माली । क्षेप इति किम् । मालावान् ॥६४॥ धर्मशीलवर्णान्तात् । ७।२०६५। धर्माद्यन्तान्मत्वर्थे इन्नेव स्यात् । मुनिधर्मी। यतिशीली । ब्राह्मणवर्णी ॥ ६५॥ बाहूर्वादेर्बलात् । ७।२।६६। बाहरुपुर्वादलान्मत्वर्थे इन्नेव स्यात् । बाहुबली । ऊरुबली ॥६६॥ मन्माब्जादेनोम्नि ।७।२।६७। मन्नन्तान्मान्तेभ्योऽब्जादेश्च मत्वर्थे इन्नेव स्यात् । नाम्नि । दामिनी । सोमिनी । अब्जिनि । कमलिनी ॥ ६७ ॥ हस्तदन्तकराज्जातौ ।७।२।६८। एभ्यो मत्वर्थे इन्नेव स्यात् । एतदन्तस्य जातावर्थे। हस्ती। दन्ती। करी॥६८॥ वर्णाद्ब्रह्मचारिणि ।७।२।६९। वर्णान्मत्वर्थे इन्नेव स्यात्। चेद्ब्रह्मचार्यर्थः। वर्णी ब्रह्मचारीत्यर्थः। वर्णवानन्यः ॥ १९॥ पुष्करादेदेशे । ७।२।७०। एभ्यो मत्वर्थे इन्नेव स्यात् । देशेऽर्थे । पुष्करिण। पद्मिनी। देश इति किम् । पुष्करवान हस्ती ॥ ७० ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy