SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ४८२ हैमशन्दानुशासनस्य । मत्वर्थे स्यात् । कच्छुरः । कच्छूमान् ॥ ३९ ॥ दन्तादुन्नतात् । ७।२।४०। उन्नत्युपार्दन्तान्मत्वर्थे डुरः स्यात्। दन्तुरः। उन्नतादिति किम् । दन्तवान् ॥ ४०॥ मेधारथान्नवरः।७।२।४१ । आभ्यां मत्वर्थे इरो वा स्यात् । मेधिरः। मेधावान् । मेधावी । रथिरः । रथिकः । रथी ॥ ४१ ॥ कृपाहृदयादालुः। ७।२।४२ । . आभ्यां मत्वर्थे वाऽलुः स्यात् । कृपालुः । कृपावान् । हृदयालुः। हृदयी ॥ ४२ ॥ केशाद्वः। ७।२।४३ । मत्वर्थे वो वा स्यात् । केशवः । केशवान् । केशी ॥४३॥ मण्यादिभ्यः। ७।२।४४। एभ्यो मत्वर्थे वः स्यात् । मणिवः। मणिमान् । हिरण्यवः। हिरण्यवान् ॥ ४४ ॥ हीनात्स्वाङ्गादः । ७।२।४५। हीनत्वोपाधेः स्वाङ्गार्थान्मत्वर्थे अः स्यात् । कर्णः। हीनादिति किम् । कर्णवान् ॥ ४५ ॥ अभ्रादिभ्यः। ७।२।४६ । एभ्यो मत्वर्थे अः स्यात् । अभ्रं नमः । अर्शसो मैत्रः ॥ ४६॥ अस्तपो मायामेधास्रजो विन् ।७।२।४७॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy