SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य एभ्यो मत्वर्थे लेलौ स्याताम् । क्षेपे गम्ये । कालाला । कालिलः । जटालः । जटिलः । घाटालः । घाटिलः । क्षेपेइति किम् । कालावान् ॥ २३ ॥ वाच आलाटौ। ७।२।२४। मत्वर्थे स्याताम् । क्षेपे गम्ये । वाचालः । वाचारः ॥ २४ ॥ ग्मिन् । ७।२।२५। वाचो मत्वर्थे ग्मिन् स्यात् । वाग्मी । वाग्वान् ॥ २५॥ मध्वादिभ्यो रः।७।२।२६। मत्वर्थे रः स्यात् । मधुरो रसः । खरो गदर्भः ॥ २६ ॥ कृष्यादिभ्यो बलच । ७।२।२७। मत्वर्थे स्यात् । कृषीवलः कुटुम्बी। आसुतीबला कल्पपालः । आसुतिमान् ॥ २७॥ लोमपिच्छादेः शेलम् ।७।२।२८॥ लोमादेः पिच्छादेश्व मत्वर्थे यथासङ्ख्यं शइलश्च स्यात् । लोमशः। लोमवान् । गिरिशः । पिच्छिलः। पिच्छवान । उरसिलः ॥२८॥ नोऽङ्गादेः। ७।२।२९। एभ्यो मत्वर्थे नः स्यात् । अङ्गना चाङ्गिी स्त्री । पामनः । पामवान ॥ २९ ॥ शाकीपलालीदर्दा हस्खश्च ।७।२॥३०॥ एभ्यो मत्वर्थे नः स्यात् । तद्योगे चैषां ह्रस्वः महच्छाकं पलालं च । शाकी । पलाली । दर्दुव्याधिः । शाकिनः । शाकीमान् । पलालिनः । द?णः॥३०॥ ........... . .
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy